________________
134
प्राकृत व्याकरणम् वैरम् > वरं "वैरम्” इति स्थिते “दैत्यादिष्वइ" (त्)" (प्रा. १.३६) इत्यनेन सूत्रेण “ऐ” कारस्य “अइ” इति आदेशे “वइरम्” इति प्राप्ते, "सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके “सु" इत्यस्य बिन्दुत्वे (अनुस्वारे) “वइरं" इति रूपं सिद्धम्।
वैदेशः > वइदेसो “वैदेश" इति स्थिते “दैत्यादिष्वइ (त्)" (प्रा. १.३६) इत्यनेन सूत्रेण आदि “ऐ" कारस्य “अइ" आदेशे “वइदेश" इति स्थिते, "शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण "श्" कारस्य “स्” कारे "वइदेस" इति स्थिते, “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य “ओत्वे”, “वइदेसो" इति रूपं सिद्धम्।
वैदेहः > वइदेहो “वैदेहः" इति स्थिते "दैत्यादिष्वइ (त्)" (प्रा. १.३६) इत्यनेन सत्रेण "आदि-ऐ" कारस्य “अइ" इति आदेशे “वइदेह" इति प्राप्ते, "अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य “ओत्वे”, “वइदेहो" इति रूपं सिद्धम्।
कैतवम् > कइअवं "कैतवम्” इति स्थिते “दैत्यादिष्वइ (त्)” (प्रा. १.३६) इत्यनेन सूत्रेण “आदि-ऐ" कारस्य “अइ” इति आदेशे “कइतवम्” इति जाते "कगचजतदपयवां प्रायो लोपः" (प्रा. २.२) इत्यनेन सूत्रेण 'त्' कारस्य लोपे “कइअवम्” इति प्राप्ते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके “सु” इत्यस्य बिन्दुत्वे (अनुस्वारे) “कइअवं” इति रूपं सिद्धम्।
वैशाखः > वइसाहो “वैशाखः” इति स्थिते “दैत्यादिष्वइ (त्)' (प्रा. १.३६) इत्यनेन सूत्रेण “आदि-ऐ" कारस्य “अइ" इति आदेशे “वइशाख" इति जाते, "शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण "श्” कारस्य “स्” कारे,