________________
133
अज्विधिः यथा
दैत्यः > दइच्चो "दैत्यः" इति स्थिते "दैत्यादिष्वइ (त्)" (प्रा. १.३६) इत्यनेन सूत्रेण “ऐ” कारस्य “अइ" इति आदेशे “दइत्यः" इति स्थिते "त्यथ्यद्यां चछजाः" (प्रा. ३.२७) इत्यनेन सूत्रेण "त्य" इत्यस्य “च्" कारे, “दइच" इति स्थिते, “शेषादेशयोर्द्वित्वमनादौ" (प्रा. ३.५०) इत्यनेन सूत्रेण “च्" कारस्य द्वित्वे "दइच्च" इति प्राप्ते, “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने "सु" इत्यस्य "ओत्वे", "दइच्चो" इति रूपं सिद्धम्।
चैत्रः > चइत्तो __"चैत्रः" इति स्थिते “दैत्यादिष्वइ" (प्रा. १.३६) इत्यनेन सूत्रेण 'ऐ' कारस्य 'अइ" इति आदेशे "चइत्र" इति स्थिते, “सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण 'र' कारस्य लोपे चइत" इति स्थिते "शेषादेशयोर्द्वित्वमनादौ" (प्रा. ३.५०) इत्यनेन सूत्रेण 'त्' कारस्य द्वित्वे "चइत्त" इति जाते, “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य “ओत्वे", "चइत्तो" इति रूपं सिद्धम्।
भैरवः > भइरवो __"भैरवः" इति स्थिते “दैत्यादिष्वइ (त्)" (प्रा. १.३६) इत्यनेन सूत्रेण “ऐ" कारस्य “अइ" इति आदेशे "भइरव" इति प्राप्ते, “अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने "सु" इत्यस्य ओत्वे, “भइरवो" इति रूपं सिद्धम्।
स्वरम् > सइरं _ "स्वैरम्" इति स्थिते “दैत्यादिष्वइ (त्)" (प्रा. १.३६) इत्यनेन सूत्रेण “ऐ" कारस्य “अइ" इति आदेशे “सइरम्" इति प्राप्ते, "सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके "सु" इत्यस्य बिन्दुत्वे (अनुस्वारे) “सइरं" इति रूपं सिद्धम्।