________________
132
प्राकृत व्याकरणम् सर्वत्र लवरामिति वलोपः। कइरवं, कैरवम्; भइरवं, भैरवम्। वइसंपाअणो, वैशम्पायनः। पो व इति वत्वं न भवति, तत्र प्रायोग्रहणानुवृत्तेः। वइदेही,
वैदेही।
दैत्यकैतववैशाखस्वैरकैरवभैरवाः।
वैशम्पायनवैदेही दैत्याद्या एवमादयः।। सिंहावलोकनन्यायेन उत्तरत्र वेति वर्तते। तेन ‘ऐतो लक्ष्यवशात् स्यातामइदेतौ क्वचित्तु वा'। सइरं, सैरं, स्वैरम्। चइत्तो, चेत्तो, चैत्रः। वइजो, वेजो, वैद्यः। त्यथ्यद्यां चछजा इति त्यस्य चत्वम्। भइरवो भेरवो भैरवः। इह न भवति दइच्चो दैत्यः॥ प्राकृतमञ्जरी
दैत्यादिषु पदेषु स्यादइरित्यक्षरद्वयम्। दैत्यस्तेन दइच्चो स्यात् स्वैरं च सइरं मतम्॥ दैत्यः स्वैरं चैत्यं कैटभवैदेहको च वैशाखः।
वैशिक-भैरव-वैशम्पायन-वैदेशिकाश्च दैत्यादिः॥ मनोरमा
दैत्यादिषु शब्देषु ऐकारस्य अइ इत्ययमादेशो भवति। दइच्चो, चइत्तो, भइरवो, सइरं, वइरं, वइदेसो, वइदेहो, कइअवो, वइसाहो, वइसिओ, वइसंपाइण॥ दैत्य - चैत्र - भैरव - स्वैर - वैर - वैदेश - वैदेह - कैतव - वैशाख - वैशिक - वैशम्पायन - इत्यादयः॥ अम्बिका
सूत्रमिदं, “ऐत एत्" (प्रा १.३५) इति सूत्रस्य अपवाद स्वरूपम्, “ऐत एत्" इति सूत्रतः “ऐतः” तथा “आदेरतः” (प्रा. १.१) इत्यतः "आदेः" इति पदद्वयमनुवर्तते। सूत्रार्थः
दैत्य आदि (चैत्र, भैरव, स्वैर, वैर, वैदेश, वैदेह, कैतव, वैशाख, वैशिक, वैशम्पायन इत्यादयः) संस्कृत शब्देषु आदि “ऐ" (ऐत्) कारस्य स्थाने प्राकृते “अइ” (अइत्) इति भवति।