________________
अज्विधिः
131
सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु” इत्यस्य " ओत्वे" " केलासो” इति रूपम् सिद्धम् । त्रैलोक्यम् > तेल्लोक्कं
<<
" त्रैलोक्यम्” इति स्थिते " ऐत एत्” (प्रा. १.३५) इत्यनेन सूत्रेण "आदि-ऐ" कारस्य “ए” कारे “तेलोक्यम्” इति जाते, “सर्वत्र लवराम्” (प्रा. ३.३) इत्यनेन सूत्रेण 'र्' कारस्य लोपे “तेलोक्यम्” इति जाते 'अधोमनयाम्” (प्रा. ३.२) इत्यनेन सूत्रेण 'य्' कारस्यलोपे, “तेलोकम्” इति जाते, “शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५० ) इत्यनेन सूत्रेण "क्” कारस्य द्वित्वे “तेलोक्कम्" इति प्राप्ते " नीड़ादिषु (च)” (प्रा. ३. ५२) इत्यनेन सूत्रेण 'ल्' इत्यस्य द्वित्वे "तेल्लोक्कम्" इति जाते, "सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके “सु” इत्यस्य बिन्दुत्वे (अनुस्वारे) "तेल्लोक्कं" इति रूपं सिद्धम् ।
३६. दैत्यादिष्वइ (त्)
सुबोधिनी
एषु एकारस्य अइ इत्यादिश्यते । दैत्यकैतववैशाखस्वैरकैरवभैरवाः ।
वैशंपायनवैदेह्यौ दैत्याद्या एवमादयः॥
I
दइच्चो कइअवं वइसाहो सइरं कइरवं वइसंपाअणो वइदेही । सिंहावलोकितन्यायादुत्तरसूत्राद्वेति वर्त्तते । तेन 'ऐतो लक्ष्यवशात् स्यातां अइदेतौ क्वचित्तु वा' । सइरं सेरं स्वैरम् । चइत्तो चेत्तो चैत्रः । वइज्जो वेज्जो वैद्यः। भइरवो भैरवो भैरवः । इह तु न भवति । दइच्चो | दैत्यः ॥ ३७॥ सञ्जीवनी
ऐत इत्यनुवर्तते औत ओदित्यतः प्राक् । दैत्यादिषु शब्देषु ऐकारस्य अइत् स्यात् । पूर्वेण एत्त्वं प्राप्तम् । दइच्चो, दैत्यः । त्यथ्यद्यां चछजा इति त्यस्य चत्वम् । तस्य शेषादेशेत्यादिना द्वित्वम् । कइअवं, कैतवम् । कगचादिना तलोपः। वलोपो न भवति, प्रायोग्रहणात् । वइसाहो, वैशाखः ! शषोः स इति शस्य सः। खघथादिना खस्य हः । सइरं, स्वैरम् । पूर्वोक्तपरोक्तयोः परोक्तो विधिर्बलवानिति उपरि लोप इत्यादिनां प्राप्तं सलोपं बाधित्वा