________________
130
सूत्रार्थः
ד
प्राकृत व्याकरणम्
संस्कृत शब्देषु " आदि ऐ" (ऐत्) कारस्य स्थाने प्राकृते "ए"
कारः भवति ।
यथा
शैलः > सेलो,
“शैलः" इति स्थिते " ऐत एत्” (१.३५) इति सूत्रेण आदि "ऐ" कारस्य “ए” कारे "शेल" इति जाते, “शषोः सः" (प्रा 2.43) इत्यनेन सूत्रेण “श्” कारस्य "स्" कारे "सेल" इति प्राप्ते " अत ओत् सोः " (प्रा ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने “सु" इत्यस्य ओत्वे "सेलो" इति रूपं सिद्धम्।
BHAR
शैत्यम् > सेच्चं
•9766.
“शैत्यम्” इति स्थिते " ऐत एत्" (प्रा. १.३५) इत्यनेन सूत्रेण आदिऐ" कारस्य "ऐ" कारे “शेत्यम्” इति स्थिते, “शषोः सः” ४२) इत्यनेन सूत्रेण 'श्' कारस्य 'स्' कारे, “सेत्यम्” इति 'त्यथ्यद्यां चछजाः" (प्रा. ३. २७) इत्यनेन सूत्रेण "त्य्" इत्यस्य "च्" कारे "सेचम्" इति स्थिते, “शेषादेशयोर्द्वित्वमनादौ ” (प्रा. ३. ५० ) इत्यनेन सूत्रेण "च्" इत्यस्य द्वित्वे "सेच्च" इति प्राप्ते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके “सु” इत्यस्य बिन्दुत्वे "सेच्चं " इति रूपं सिद्धम् ।
ऐरावणः > एरावणो
“ऐरावणः” इति स्थिते " ऐत एत्" (प्रा. १.३५ ) इत्यनेन सूत्रेण " आदि-ऐ" कारस्य “ए” कारे " एरावण" इति स्थिते " अंत ओत् सोः " ( प्रा. ५.१) इत्यनेन सूत्रेण, अदन्तस्य प्रथमा विभक्ति एकवचने “सु” इत्यस्य “ओत्वे" " एरावणो" इति रूपं सिद्धम् ।
कैलासः > केलासो
“कैलासः” इति स्थिते " ऐत एत्" (प्रा. १.३५ ) इत्यनेन सूत्रेण “आदि-ऐ” 'कारस्य 'ए' कारे "केलासः" इति स्थिते " अंत ओत्