________________
अज्विधिः
129 “वेअणा" इति रूपं सिद्धम्।
देवरः > दिअरो, देअरो "देवरः" इति स्थिते “एत इद् वेदनादेवरयोः" (प्रा. १.३४) इत्यनेन सूत्रेण "ए" कारस्य "इ" कारे "दिवर" इति स्थिते, “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण “व्" कारस्य लोपे "दिअर" इति प्राप्ते “अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने “सु" इत्यस्य ओत्वे "दिअरो" इति रूपं सिद्धम्। "इ" कारस्य अभाव पक्षे “देअरो" इति रूपं सिद्धम्। ३५. ऐत एत् सुबोधिनी
ऐत ऐकारस्य स्थाने एत्त्वं भवति। सेलो, शैलः॥ सञ्जीवनी
ऐत ऐकारस्य स्थाने एत्त्वं भवति। सेलो, शैलः। शषोः स इति शस्य सः। केलासो, कैलाशः। वेसअणो, वैश्रवणः। सर्वत्र समिति रलोपः। सेण्णं, सैन्यम्। अधो मनयामिति यलोपः। नो ण त णः। शेषादेशादिना द्वित्वम्। वेरं, वैरम्। तेल्लं, तैलम्। नीडादिषु इति लस्य द्वित्वम्॥३६॥ प्राकृतमञ्जरी
ऐकारस्य भवेदेत्त्वमुत्सर्गेण पदे पदे।
शैलो निगद्यते सेलो शैवलं सेअलं मतम्॥३५॥ मनोरमा
आदेरैकारस्य एकारो भवति। सेलो, सेच्चं, एरावणो, केलासो। तेल्लोक्कं॥
शैल-शैत्य-ऐरावण-कैलास-त्रैलोक्यानि॥ अम्बिका
आदेरतः (प्रा. १.१) इत्यतः “आदेः” पदमनुवर्तते।