________________
128
प्राकृत व्याकरणम् सञ्जीवनी
एतयोः शब्दयोः एत एकारस्य इकारादेशो भवति वा। तकारोऽसन्देहार्थः। विअणा, वेअणा, वेदना। कगचादिना दलोपः। नो ण इति णः। दिअरो, देअरो, देवरः। अत ओत् सोरित्योत्त्वम्। पूर्ववदन्यत्। 'एकारस्य भवेदित्त्वं केसरेऽपि विभाषया'। किसरो, केसरो, केशरः॥ ३५॥ प्राकृतमञ्जरी
एत इद् वेदनाशब्दे देवरे च विधीयते। वेदना विअणा तद्वद् देवरो दिअरो मतः।। वेअणा देअरो चेति लक्ष्ये भवति चेदिह।
वेन रुर्वेत्यतो वेति स्यान्मण्डूकप्लुतिक्रमात्।। मनोरमा
वेदनादेवरयोरेकारस्य इकारो भवति। विअणा, दिअरो। वाग्रहणनुवृत्तेः क्वचिद् वेअणा, देअरो इत्यपि॥ अम्बिका
भामह आचार्यस्य मतेन संभवतः “वृक्षे वेन रुर्वा” (प्रा. १.३२) इति सूत्रतः “वा" पदमनुवर्तते, मण्डूकप्लुति न्यायेन। सूत्रार्थः
“वेदना”, “देवर" इति संस्कृत शब्दयोः “ए” - कारस्य स्थाने प्राकृते विकल्पेन “इ” कारः भवति।
यथा
वेदना > विअणा, वेअणा “वेदना'' इति स्थिते “एत इद् वेदनादेवरयोः” (प्रा. १.३४) इत्यनेन सूत्रेण 'ए' कारस्य “इ'' कारे “विदना” इति स्थिते, “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'द्' इत्यस्य लोपे, “विअना" इति जाते, “नोणः सर्वत्र” (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' कारस्य 'ण' कारे "विअणा” इति रूपं सिद्धम्। “इ” कारस्य अभाव पक्षे