________________
अज्विधिः
127 सा च व्यवस्थितविभाषा। तेनेह न भवति। लिआलो, लकारः। लकारऋकारयोः सावाद् अयुक्तस्यापि लकारस्य रिः। तस्य हरिद्रादीनां -रो ल इति लत्वम्॥ प्राकृतमञ्जरी
.. . केवलस्याप्रयुक्तत्वाद् लुतः क्लुप्ते स्थितस्य तु। .
इत्यादेशो भवेत् क्लृप्तं किलित्तं कथ्यते बुधैः॥३३॥ मनोरमा __क्लृप्तशब्दे लकारस्य इलीत्ययमादेशो भवति। किलित्तं। तदेवमादेशान्तरविधानात् प्राकृते ऋकारलकारौ न भवतः।। अम्बिका
. नानुवृत्तिः वर्तते अस्मिन् सूत्रे। सूत्रार्थः
संस्कृत क्लुप्त शब्दस्य “ल” कारस्य स्थाने प्राकृते “इलि" भवति। यथा
क्लुप्तम् > किलित्तं "क्लृप्तम्” इति स्थिते “लतः क्लुप्त इलि” (प्रा. १.३३) इत्यनेन सूत्रेण "ल" इत्यस्य "इलि" इति प्राप्ते “किलिप्तम्” इति स्थिते, "उपरि लोपः कगडतदपषसाम्" (प्रा. ३.१) इत्यनेन सूत्रेण 'प' कारस्य लोपे, “किलितम्" इति स्थिते "शेषादेशयोर्द्वित्वमनादौ'' (प्रा. ३.५०) इत्यनेन सूत्रेण "त्" कारस्य द्वित्वे “किलित्तम्" इति स्थिते “सौर्बिन्दुनपुंसके" (प्रा. ५.३०) इत्यने — सूत्रेण नपुंसके “सु" इत्यस्य विन्दुत्वे (अनुस्वारे) "किलितं" इति रूपं सिद्धम्। ३४. एत इद् वेदनादेवरयोः सुबोधिनी
एतयोरेकारस्य इत्वं स्यात्। विअणा, वेअणा। दिअरो, देअरो॥