________________
126
प्राकृत व्याकरणम्
वृक्षः > रुक्खो
"वृक्षः” इति स्थिते “वृक्षे वेन रुर्वा" (प्रा. १.३२) इत्यनेन सूत्रेण, 'व्' कारेण सह ऋ कारस्य 'रु' कारे " रुक्ष" इति स्थिते, "ष्कस्कक्षां खः” (प्रा. ३.२९) इत्यनेन सूत्रेण "क्ष" कारस्य ख्" कारे "रुख" इति स्थिते, " शेषादेशयोर्द्वित्वमनादौ " ( प्रा. ३.५० ) इत्यनेन सूत्रेण “ख्” कारस्य द्वित्वे "रुख्ख" इति स्थिते "वर्गेषु युजः पूर्व” (प्रा. ३.५१) इत्यनेन सूत्रेण "ख्” कारस्य "क्” कारे “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने "सु” इत्यस्य "ओत्वे", "रुक्खो" इति शब्दः सिद्धः ।
वृक्षः > वच्छो
“वृक्षः” इति स्थिते "ऋतोऽत्” (प्रा. १.१७) इत्यनेन सूत्रेण "ऋ" कारस्य “अ” कारे “वक्ष" इति स्थिते “क्षमावृक्षक्षणेषु वा” (प्रा. ३.३२) इत्यनेन सूत्रेण क्ष" कारस्य विकल्पेन “छ्” कारे, “वछ” इति स्थिते, " शेषादेशयोदित्वमनादौ " (प्रा. ३.५० ) इत्यनेन सूत्रेण 'छ्’ कारस्य द्वित्वे "वछ्छ” इति जाते, "वर्गेषु युजः पूर्व:" (प्रा. ३.५१) इत्यनेन सूत्रेण छ' कारस्य च् कारे वच्छ इति स्थिते, "अत ओत् सोः” (प्रा. ५.२) इत्यनेन सूत्रेण, अदन्तस्य प्रथमा विभक्ति एकवचने “सु” इत्यस्य “ओत्वे”, “वच्छो” इति रूपं सिद्धम् ।
समन्वयः
इदं सूत्रस्य विभाषा खलु, व्यवस्थित विभाषा । अतः “क्ष्” कारस्य 'ख्' कारे अयं नियमः नित्यमेव । परन्तु' "क्ष्" कारस्य “छ्” कारे अयं नियमः न प्रयुज्यते ।
३३. लृतः क्लृप्त इलि
सुबोधिनी
लृकारस्य इलिरादेशः स्यात् । किलित्तं, क्लृप्तम् । वेत्यनुवर्त्तते । स च व्यवस्थित-विकल्पार्थः । तेनेह न भवति । लिआरो, लृकारः ॥ ३४ ॥ सञ्जीवनी
लृतो लृकारस्य इलिरादेशः स्यात् । किलित्तं, क्लृप्तम् । वेति वर्तते ।