________________
125
अज्विधिः ३२. वृक्षेवेनरूर्वा सुबोधिनी
अत्र वेन वकारेण सह ऋतो रुत्वं वा स्यात्। रुक्खो, वृक्षः। अत्त्वमित्त्वं तथा चोत्त्वं रित्त्वं रुत्वमृतोऽत्र यत्। एषां लक्ष्यवशात् कार्यो निश्चयो न तु सूत्रतः॥
ऋत इति निवृत्तम्॥ सञ्जीवनी
वृक्षशब्दे वेन वकारेण सह ऋकारस्य रुः स्याद्वा। रुक्खो वृक्षः। ष्कस्कक्षां खः इति क्षस्य खः। तस्य द्वित्वे वर्गे युजः पूर्व इति कः। पक्षे वच्छो, वृक्षः। क्ष्मावृक्षक्षणेषु छः, द्वित्वं च पूर्ववत्।
आत्त्वमित्त्वं तथा चोत्त्वं रित्त्वं रुत्वमृतोऽत्र यत्।
एषां लक्ष्यवशात् कार्यो निश्चयो न तु सूत्रतः॥ प्राकृतमञ्जरी
वृक्षशब्दे वकारेण सह रुत्वमृतः स्मृतम्।
विकल्पेन विदुर्वक्षं रुक्खं वा वच्छमेव वा॥३२॥ मनोरमा
वृक्ष शब्दे व शब्देन सह ऋ कारस्य “रू" कारो भवति वा। रुक्खो, वच्छो। व्यवस्थित विभाषाज्ञापनाच्छत्वपक्षे न भवति, खत्वपक्षे तु नित्यमवभवति॥ अम्बिका __ "ऋतोऽत्” (प्रा. १.२७) इत्यतः “ऋतः” पदमनुवर्तते।
सूत्रार्थः
संस्कृत “वृक्ष" शब्दे विद्यमान “ऋ" (ऋत्) कारस्य, वृक्ष"। शब्दस्य 'व' भागेन सह प्राकृते विकल्पेन “रु” कारः भवति। .