________________
124
रिः” (प्रा. १.३० ) इति सूत्रतः “रिः ” पदद्वयमनुवर्त्तते ।
सूत्रार्थ:
प्राकृत व्याकरणम्
कतिपय संस्कृत शब्देषु वर्णान्तरसंयुक्त मध्य "ऋ" कारस्य प्राकृते "रि" कारः भवति ।
यथा
ईदृश: > एरिसो
अस्य प्रक्रियां "एन्नीड़ापीड़कीदृशीदृशेषु" (प्रा. १. १९) इति सूत्रं प्रसंगे द्रष्टव्यम् ।
सदृशः > सरिसो
सदृशः” इति स्थिते "क्वचिद्युक्तस्यापि " (प्रा. १.३१) इत्यनेन सूत्रेण “ऋ” कारस्य "रि" कारे, “सरिश” इति स्थिते, शषोः सः" (प्रा. २.४३) इत्यनेन सूत्रेण 'श्' कारस्य 'स्' कारे "सरिस" इति जाते "अत ओत् सोः” (प्रा. ५.१) इति सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु” इत्यस्य "ओत्वे”, “सरिसो” इति रूपं सिद्धम् । तादृशः > तारिसो
"
" तादृशः” इति स्थितें “कंगचजतदपयवां प्रायो लोपः " (प्रा. २. २) इत्यनेन सूत्रेण “द्” कारस्य लोपे “ताऋश” इति स्थिते "क्वचिद्युक्तस्यापि” (प्रा. १.३१) इत्यनेन सूत्रेण "ऋ" कारस्य "रि" कारे, "तारिश” इति स्थिते, "शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण “श्” कारस्य “स्” कारे "तारिस" इति स्थिते, "अत ओत् सो: " ( प्रा. ५.१) सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने "सु" इत्यस्य "ओत्वे", "तारिसो” इति रूपं सिद्धम् ।
कीदृशः > केरिसो
अस्य प्रक्रियां "एन्नीड़ापीड़कीदृशीदृशेषु" (प्रा. १.१९) इति सूत्रप्रसङ्गे द्रष्टव्यम्।