________________
अज्विधिः
123 सूत्रेण “ध्" कारस्य द्वित्वे "रिध्ध" इति स्थिते “वर्गेषु युजः पूर्वः (प्रा. ३.५१) इत्यनेन सूत्रेण, ध् कारस्य "द्" कारे “रिद्ध" इति प्राप्ते, "अत ओत् सोः' (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य “ओत्वे", "रिद्धो" इति रूपं सिद्धम्। ३१. क्वचिधुक्तस्यापि सुबोधिनी
युक्तस्याऽपि मध्ये॥ ॥
सुसंस्कृताधवर्णमध्यस्थितस्य ऋतो युक्तत्यापि रिकारादेशः स्यात्। यारिसो, यादृशः। तारिसो तादृशः।। सञ्जीवनी
युक्तस्यापि वर्णान्तरेण संयुक्तस्य ऋकारस्य रिरित्ययमादेशो भवति। अपिः समुच्चये। जारिसो, यादृशः। आदेर्यो ज इति जः। तारिसो, तादृशः। एरिसो, केरिसो। ईदृशकीदृशयोः। एनीडापीडकीदृशेडशेष्विति ईकारस्य एत्त्वम्। सर्वत्र शषोः स इति शस्य सः। प्राकृतमञ्जरी
युक्तस्यापि वचिद्रत्वं स्याहकारस्य तद् यथा। कीदृशं केरिसं विद्यादीदृशं पुनरेरिसं॥ सदृशो यादृशस्तद्वदेतादृश इतीशौ। मादृशास्मादृशी चैवं युष्मादृशभवादृशौ। त्वादृशोऽन्यादृशस्तद्वत् कीदृशेशतादृशाः।
प्रायशः क्वचिदित्युक्तं तथा लक्ष्येषु दृश्यताम्।। मनोरमा __वर्णान्तरेण युक्तस्यापि क्वचिहकारस्य रिकारो भवति। एरिसो। सरिसो। तारिसो। केरिसो॥ अम्बिका
“ऋतोऽत्" (प्रा. १.२७) इति सूत्रतः “ऋतः” तथा “अयुक्तस्य