________________
122
प्राकृत व्याकरणम् मनोरमा वर्णान्तरेणायुक्तस्यादेः “ऋ" कारस्य रिकारो भवति, रिणं। रिद्धो। रिच्छो।
ऋण-ऋद्ध-ऋच्छ-इत्येवमादयः॥ अम्बिका
“आदेरतः" (प्रा. २.२) इति सूत्रतः ‘आदेः', "ऋतोऽत्” (प्रा. १.२७) इत्यतः ऋतः पदद्वयमनुवर्तते। .
. .... सूत्रार्थः
संस्कृतशब्देषु आदिषु विद्यमान तथा असंयुक्त "ऋ" (ऋत्) कारस्य स्थाने प्राकृते "रि" कारः भवति।
ऋणम् > रिणं "ऋणम्" इति स्थिते “अयुक्तस्य रिः” (प्रा. १.३०) इत्यनेन सूत्रेण आदि तथा अयुक्त "ऋ" कारस्य "रि" कारे “रिण" इति प्राप्ते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण सु” इत्यस्य बिन्दुत्वे (अनुस्वारे) “रिणं" इति रूपं सिद्धम्।
ऋक्षः > रिच्छो __ "ऋक्षः" इति स्थिते “अयुक्तस्य रिः" (प्रा. १.३०) इत्यनेन सूत्रेण आदि तथा अयुक्त "ऋ" कारस्य "रि" कारे "रिक्ष" इति स्थिते "अक्ष्यादिषु च्छ:' (छः) (प्रा. ३.३०) इत्यनेन सूत्रेण “क्ष्" इत्यस्य "छ” कारे “रिछ” इति जाते "शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५०) इत्यनेन सूत्रेण “छ्" इत्यस्य द्वित्वे, “वर्गेषु युजः पूर्वः” (प्रा. ३. ५१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य "ओत्वे", "रिच्छो" इति रूपं सिद्धम्।
ऋद्धः > रिद्धो "ऋद्धः" इति स्थिते “अयुक्तस्य रिः" (१.३०) इत्यनेन सूत्रेण आदि तथा अयुक्त "ऋ" कारस्य "रि" कारे “रिद्ध" इति स्थिते, "उपरि लोपः कगडतदपषसाम्" (प्रा. ३.१) इत्यनेन सूत्रेण 'द' कारस्य लोपे, “रिध" इति स्थिते, “शेषादेशयोर्वृित्वमनादौ" (प्रा. ३.५०) इत्यनेन