________________
अविधिः
121 परभृतः > परहुओ परभृतः” इति स्थिते “उदृत्वादिषु" (प्रा. १.२९) इत्यनेन सूत्रेणं ऋ" कारस्य 'उ' कारे परभुत" इति स्थिते “खघथधभां हः" (प्रा. २.२७) इत्यनेन सूत्रेण “भ्" कारस्य "ह" कारे “परहुत" इति स्थिते "कगचजतदपयवां प्रायो लोपः" (प्रा.२.२) इत्यनेन सूत्रेण "त्" कारस्य लोपे “परहुअ" इति स्थिते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभिक्ति एकवचने “सु" इत्यस्य ओत्वे “परहुओ" इति रूपं सिद्धम्।
मातृकः > माउओ "मातृकः” इति स्थिते "उदृत्वादिषु” (प्रा. १.२९) इत्यनेन सूत्रेण "ऋ" कारस्य 'उ' कारे "मातुक" इतिस्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण क्त् कारयोः लोपे “माउअ" इति स्थिते “अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने "सु" इत्यस्य ओत्वे “माअओ" इति रूपं सिद्धम्।
जामातृकः > जामाउओ . “जामातृकः” इति स्थिते “उदृत्वादिषु" (प्रा. १.२९) इत्यनेन सूत्रेण "ऋ" कारस्य “उ” कारे “जामातुक" इति स्थिते, “कगचजतदपयवां प्रायो लोपः' (प्रा. २.२) इत्यनेन सूत्रेण “त्क्" कारयोः लोपे “जामाउअ" इति प्राप्ते “अत-ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य ओत्वे “जामाउओ" इति रूपं सिद्धम्। ... ३०. अयुक्तस्य रिः सुबोधिनी
अयुक्तस्य रिः॥
वर्णान्तरेणासंयुक्तस्य ऋतो रिकारः स्यात्। रिणं, ऋणम्। प्राकृतमञ्जरी
अयुक्तस्य हला रित्वमृकारस्य विधीयते। .. ऋक्षमाहुर्बुधा रिच्छं ऋद्धं रिद्धं ऋणं रिणं॥
:
: