________________
120
प्राकृत व्याकरणम् २९) इत्यनेन सूत्रेण “ऋ" कारस्य “उ” कारे "णिवुत्त" इति जाते "सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण 'व्' कारस्य लोपे “णिउत्त" इति स्थिते "ऋत्वादिषु तो दः'' (प्रा. २.७) इत्यनेन सूत्रेण "त्" कारस्य 'द' कारे "णिउद'' इति प्राप्ते “सोर्बिन्दुनपुंसके” (प्रा. ५. ३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) “णिउदं" इति रूपं सिद्धम्।
- संवृतम् > संवुदं . "संवृतम्” इति स्थिते “उदृत्वादिषु” (१.२९) इत्यनेन सूत्रेण "आदि-ऋ" कारस्य स्थाने “उ” कारे “संवुतम्" इति जाते, "ऋत्वादिषु तो दः' (प्रा. २.७) इत्यनेन सूत्रेण "त्" कारस्य 'द्' कारे, “संवुदम्" इति प्राप्ते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके "सु” इत्यस्य बिन्दुत्वे “संवुदं” इति रूपं सिद्धम्।
। निर्वृतम् > णिव्वुदं - निर्वृतम्" इति स्थिले “नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण "न्" कारस्य “ण्" कारे “णिर्वृतम्" इति स्थिते, “उदृत्वादिषु” (प्रा. १.२९) इति सूत्रेण "ऋ' 'कारस्य “उ” कारे "
णितम्" इति जाते, "सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण “र” कारस्य लोपे, “णिवुतम्" इति स्थिते, “शेषादेंशयोर्द्वित्वमनादौ” (प्रा. ३.५०) इत्यनेन सूत्रेण 'व' कारस्य द्वित्वे “णिव्वुतम्" इति स्थिते "ऋत्वादिषु तो दः” (प्रा. २. ७) इत्यनेन सूत्रेण "त्" कारस्य "द्" कारे "णिव्वुद" इति प्राप्ते "सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके “सु" इत्यस्य बिन्दुत्वे (अनुस्वारे) “णिब्बुदं” इति रूपं सिद्धम्। .
वृत्तान्तः > वुत्तन्तो . "वृत्तान्तः" इति स्थिते “उदृत्वादिषु' (प्रा. १.२९) इत्यनेन सूत्रेण "आदि-ऋ' कारस्य “उ” कारे “वृत्तान्त' इति स्थिते, “अदातो यथादिषु वा' (प्रा. १.१०) इत्यनेन सूत्रेण 'आ' कारस्य 'अ' कारे “वुत्तन्त" इति स्थिते “अत ओत् सोः' (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रभामा विभक्ति एकवचने “सु' इत्यस्य ओत्वे” “वुत्तन्तो" इति रूपं मिम्।