________________
119
अज्विधिः
पृथिवी > पुहवी अस्याः प्रक्रियाः “अत् पथिहरिदापृथिवीषु" (प्रा. १.१३) सूत्रप्रसङ्गे द्रष्टव्यम्।
वृन्दावनम् > वुन्दावणं “वृन्दावनम्" इति स्थिते "उदृत्वादिषु' (प्रा. १.२९) इत्यनेन सूत्रेण “आदि-ऋ” कारस्य “उ” कारे “वुन्दावनम्" इति जाते “नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण "न्" कारस्य 'ण' कारे “वुन्दावण" इति प्राप्ते सोर्बिन्दुनपुंसके" (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) “वुन्दावणं" इति शब्दःसिद्धः।
प्रावृट् > पाउसो “प्रावृट्” इति स्थिते “सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण 'र' कारस्य लोपे “पावृट्" इति स्थिते "उदृत्वादिषु" (प्रा. १.२९) इत्यनेन सूत्रेण "ऋ" कारस्य “उ” कारे “पावुट् इति जाते “सर्वत्र लवराम्" इत्यनेन सूत्रेण “व्" कारस्य लोपे “पाउट्” इति प्राप्ते “दिक्-प्रावृषोः सः" (प्रा. ४.११) इत्यनेन सूत्रेण अन्त्यहल् स्थाने स' आदेशे “पाउस" इति प्राप्ते “नसान्तप्रावृद्शरदःपुंसि" (प्रा. ४.१८) इत्यनेन सूत्रेण 'प्रावृट्' शब्द पुंल्लिंगत्वात् “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य “ओत्वे”, “पाउसो' रूपं सिद्धम्।
. प्रवृत्तिः > पउत्ती . “प्रवृत्ति" इति स्थिते “सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण 'र' कारस्य लोपे “पवृत्ति" इति स्थिते "उदृत्वादिषु” (प्रा. १.२९) इत्यनेन सूत्रेण "ऋ" कारस्य “उ” कारे पवुत्ति" इति जाते “सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण 'व्' कारस्य लोपे “पउत्ति'' इति प्राप्ते, “सुभिस्सुप्सु दीर्घः' (प्रा. ५.१८) इत्यनेन सूत्रेण इदन्तस्य 'सु' इति विभक्तिप्रत्यये दीर्घत्वे “पउत्ती" इति रूपं सिद्धम्।
निवृत्तम् > णिउदं निवृत्तम् इति स्थिते "नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' कारस्य 'ण' कारे "णिवृत्त" इति स्थिते "उदृत्वादिषु' (प्रा. १.