________________
118
मनोरमा
ऋतु इत्येवमादिषु आदेः ऋतः उकारो भवति । उदू । मुणालो । पुहवी । वुन्दावणं। पाउसो। पउत्ती । णिउदं । संवुदं । णिव्वुदं । वुत्तन्तो । परहुओ । माउओ। जामाउओ॥ ऋतु- मृणाल - पृथिवी - वृन्दावन-प्रावृष्-प्रवृत्तिनिवृत - संवृत - निर्वृत- वृत्तान्त - परभृत- मातृक - जामातृक इत्येवमादयः ॥ अम्बिका
प्राकृत व्याकरणम्
'आदेरतः " ( प्रा. १.१) इत्यतः “ आदेः " तथा "ऋतोऽत्” (प्रा. १.२७) इति सूत्रतः “ऋतः ” पदद्वयमनुवर्त्तते इति “भामह आचार्यस्य” विचारम् । परन्तु उदाहरणात् प्रतीयते यत्, अनेकात्र मध्य “ऋ" कारस्य स्थाने “उ” कारः आदिश्यते । अतः “आदेः” इति पदस्यानुवर्त्तनं तु चिन्त्यमेव ।
सूत्रार्थः
""
ऋतुः आदि (मृणाल, पृथिवी, वृन्दावन, प्रावृट्, प्रवृत्ति, निवृत्त, संवृत्त, निर्वृत, वृत्तान्त, परभृत, मातृक, तथा जामातृक) संस्कृत शब्देषु विद्यमान “ऋ” (ऋत्) कारस्यस्थाने प्राकृते “उ” (उत्) कारः भवति । ऋतु: > उदू
66
" ऋतुः" इति स्थिते "उदृत्वादिषु ” ( प्रा. १.२९) इत्यनेन सूत्रेण 'आदि-ऋ" कारस्य "उ" कारे “उतुः" इति स्थिते “ऋत्वादिषु तो दः” (प्रा. २.७) इत्यनेन सूत्रेण 'त्' कारस्य 'द्' कारे "उदु" इति प्राप्ते "सुभिस्सुप्सु दीर्घः " ( प्रा. ५.१८) इत्यनेन सूत्रेण उदन्तस्य 'सु' इति विभक्ति प्रत्यये दीर्घत्वे “उदू" इति रूपं सिद्धम् ।
मृणालः > मुणालो..
“मृणालः” इति स्थिते " उद्धृत्वादिषु ” (प्रा. १.२९) इत्यनेन सूत्रेण 'आदि-ऋ" कारस्य "उ" कारे " मुणाल " इति प्राप्ते " अत ओत् सोः " (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु” इत्यस्य “ओत्वे" " मुणालो " इति रूपं सिद्धम् ।