________________
कारकविवरणम्
पृथङ्नानाध्वनिभ्यां स्यादन्विताद् गौणनामतः । तृतीयापञ्चम्यौ जीवात्पृथग् जीवेन वाऽचितः ॥ १३ ॥ स्यात्तृतीया च षष्ठी च गौणात्तुल्यार्थकै र्युतात् । ज्ञेया मात्रा समाऽन्यस्त्री धर्मस्तुल्यः पितुस्तथा ॥ १४ ॥ हेत्वर्थैरन्विताद्गौणात्तदेकार्थाद्विभक्तयः ।। तृतीयाद्या विधीयन्ते भिक्षया हेतुना गतः ॥ १५ ॥ विहाय भोगान् प्रावाजीत्स निमित्ताय मुक्तये । कर्माणीह न बध्यन्ते गृहीतात्कारणाढ्तात् ॥ १६ ॥ कालोऽध्वा च यः क्रिययो मध्ये गौणात्तदर्थकात् । पञ्चमी सप्तमी च स्यादिति शास्त्रव्यवस्थितिः ॥ १७ ॥ भुक्तवाऽद्य स यहे भोक्ता यहादेता गतो मुनिः । योजने पश्यतीहस्थो लाति क्रोशाच्च पुद्गलान् ॥ १८ ॥ अल्पीयोवाचिना युक्ता १ दधिकध्वनिना भवेत् । भूयोऽर्थाद्गींगतो नाम्नः पञ्चमी सप्तमी तथा ॥ १९ ॥ खार्यामस्त्यधिको द्रोणो द्रोणाच्चाऽऽधिकमाढकम् । अधिकं शतं सहस्रे शतात्सन्ति दशाऽधिकाः ॥२०॥ षष्ठी वाऽनादरे गम्ये यद्भावो भाक्लक्षणम् । तस्माद्गौणात्स प्राणाजील्लोकस्य रुदतोऽममः ॥ २१ ॥ बुद्ध्या यदेकदेशस्य समुदायात्पृथक्कृतिः ।
१ अल्पीयोवाचिनाऽधिकध्वनिना युक्तादित्यन्वयः । .
.