________________
कारकविवरणम्
८)
ऋते यथार्थवक्तृत्वमाप्तत्वे । जगतोऽपि तत् ॥५॥ विनाशब्देन संयुक्ताद् गौणान्नानो विधीयते । द्वितीया च तृतीया च विभक्तिः पञ्चमी तथा . ॥ ६ ॥ धर्माऽधर्मों विना नाऽङ्गं विनाऽङ्गेन मुख कुतः ? । मुखाद्विना न वक्तृत्वं तच्छास्तारः परे कथम् ? ॥ ७ ॥ एनो योऽनञ्चे विहितस्तदन्तेनाऽन्विताद् भवेत् । गौणाद् द्वितीया षष्ठी च जायते २ ऽश्चेस्तु पञ्चमी ॥८॥ कदम्बागुरुत्तरेण गिरिः शत्रुञ्जयो महान् । तं चाऽदि दक्षिणेन ३ नदी शत्रुञ्जयाऽभिधा ॥९॥ दूरार्थादन्तिकार्थाच्च टाङसिङिविभक्तयः । - असत्त्ववाचिनो नाम्नो विधीयन्ते यथायथम् ॥१०॥ ४ दूरेण दूराद्वा मुक्तेः सोऽन्तिके वाऽन्तिकं भवेत् । भवभ्रमणहेतो र्यो विषयस्याऽबुधो जनः ॥ ११ ॥ भूयोऽर्थाधिकशब्देनान्वितादल्पीयसो भवेत् । . तृतीया गौणतो नाम्नोऽधिकं माषेण रुप्यकम् ॥ १२ ॥
१ जगतः सर्वस्याऽपि तदाप्तत्वम् । प्रसज्यते इति शेषः । २ अञ्चे यं एनो विहितस्तदन्तेनाऽन्वितादित्यर्थ । .. ३ शत्रुञ्जयमित्यर्थः । ४ योऽबुधो जनो मवभ्रमणहेतो विषयस्याऽन्तिकेऽन्तिकं वा मवेत मुक्ते •रेण दूरादेत्यन्वयः । u