SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् प्राप्नोति, यदि च कर्मादिविवक्षायां द्वितीयादिभिः षष्ठया बाध इत्युच्यते, तदा क षष्ठीति विशिष्य वक्तव्यमिति चेत्सत्यम् । तदेवाहस इति । सम्बन्ध इत्यर्थः । कारकविशेषाणामिति । कर्मादीनां षण्णामित्यर्थः । कर्मादीनामविवक्षायां सत्यां प्रतीयमाने सम्बन्धमात्रे षष्ठीति यावत् । अत एवोक्तं बृहन्न्यासे-'कर्मादिभ्योऽन्यः सम्बन्ध एवाऽवतिष्ठते इति सामर्थ्यात्सम्बन्धे षष्ठी भवती' ति । एवं च कारकसामान्यविवक्षायां षष्ठी, कारकविशेषविवक्षायां तु कर्मत्वादिनिमित्ता द्वितीयादयो भवन्तीति विवेकः । कर्मादीनामविवक्षायां हि सम्बन्धमात्रं प्रतीयत इति यत्र सम्बन्धमात्रप्रतीतिस्तित्र षष्ठी, यत्र पुनः कर्मादि विवक्षितम् , तत्र कर्मादेरधिकस्य भानमिति द्वितीयादय एव तत्र, न षष्ठीति निष्कृष्टोऽर्थः ॥ ६७ ॥ षष्ठ्यर्थानां सम्बन्धानां सम्भवन्तीमियत्तामाकाङ्क्षानिवृत्तये आह.. एकं शतं हि षष्ठयर्थाः स्वस्वामित्वादिभेदतः । स्वस्वामित्वे यथा भूमेः पतिः स्वामी गवामयम् ॥६८॥ एकंशतमिति । सम्भवमानत इत्थमुक्तिः । नत्वेतावदेवेत्यवधारणं बोध्यम् । अधिकस्याऽपि सम्भवात् । अत एवोक्तं महाभाष्ये'एकशतं षष्ठयाः, यावन्तो वा सन्ति, सर्वे षष्ठ्यामुच्चारितायां प्राप्नुवन्ती' ति । के ते इत्याकङ्क्षापूरणायाह-स्वेति । प्रत्येक सर्वेषामुपादानस्य दुःशकत्वादनावश्यकत्वाच्चाह-आदीति । जन्यजनकभावादिरादिना गृह्यते । उदाहरणमाह- भूमेरिति । भूमिः
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy