________________
कारकविवरणम्
स्वम् , पतिश्च स्वामी, तयोभावे हि भूमेः पतिरिति प्रयोगः । एवमग्रेऽपि ॥ ६८ ॥
बोधवैशद्यार्थमुदाहरणान्तराण्याहजन्यजनकसम्बन्धे जगतः पितरौ यथा । १ वध्यघातकभावे च यथा कंसस्य घातकः ॥६९ ॥ भोज्यभोजकभावे स्यादहे भोक्ताऽस्ति बहिणः । धार्यधारकभावे च २ यथा छत्रस्य धारकः ॥ ७० ॥
कंसस्येति । कर्मविवक्षायां तु कृद्योगे कर्मण्येव षष्ठी । तदविव क्षायां सम्बन्धमात्रे षष्ठी, तदेदमुदाहरणम् । एवमहेरित्यत्रच्छत्रस्येत्यत्राऽपि च बोव्यम् । अहिः सर्पः, बर्हिणो मयूरः ॥७०॥
अथ षष्ठीविषये विशेषः सङ्ग्रह्योच्यतेअज्ञानार्थस्य जानातः करणाद् गौणतो भवेत् । षष्ठी तैलं स जानीते सर्पिषोऽत्र ३ भ्रमोऽमतिः ॥१॥ रिरिष्टात्स्तादस्तादसतसात्प्रत्ययान्तयुक्ताद् गौणात् । नाम्नः षष्ठी तमसः परस्ताज्जिनो बुधैर्गीतः ॥२॥
१ ‘वध्यवधकभावे तु यथा कंसस्य हिंसक' इति क० ग० पाठ । २ 'तु' इति क० ग० पाठः ।
३ अनाऽज्ञानमित्यस्य न ज्ञानसामान्यभिन्नमर्थः । किन्तु ज्ञानं प्रमा, तद्भिन्नमप्रमात्मकं ज्ञानमेवाऽज्ञानम् । सर्पिषस्तैलत्वेन परिच्छेदे चात्र जानाति मवति तदभाववति तत्प्रकारकज्ञानात्मकभ्रमरूपाऽज्ञानार्थे इत्याशयः ।