________________
कारकविवरणम्
ननु मा भूत्पुरुषपदात्षष्ठी, प्रथमा तु कथम् ?,नामार्थमात्रे हि प्रथमा विधीयते, अत्र च सम्बन्धरूपस्यार्थस्याधिकस्य भानादिति चेन्न । सम्बन्धस्य वाक्यार्थत्वात्पुरुषपदान्नामार्थमात्रे प्रथमोत्पत्तेः । यदुक्तं महाभाष्ये-' आधिक्यस्य वाक्यार्थत्वादि' ति । .. अथैवं राजपदादपि षष्ठी न स्यात् , सम्बन्धस्य वाक्यार्थत्वादिति चेन्न । १ परार्थत्वेन विवक्षितत्वाद्राज्ञ इति केवले पदे प्रयुक्तेऽपि सामान्यतः सम्बन्धार्थस्य प्रतीतेस्तत्र सम्बन्धस्य वाक्यार्थत्वाऽभावात् । पुरुषपदप्रयोगे च सम्बन्धविशेषप्रतिपत्तिरित्यन्यदेतत् । पुरुषपदस्य तु राजपदसमभिव्याहारमन्तरेण न सम्बन्धार्थप्रतीतिरिति तत्र तस्य वाक्यार्थत्वमेव । यदुक्तं हरिणा
द्विष्ठोऽप्यसौ परार्थत्वाद्गुणेषु व्यतिरिच्यते ।
तत्राऽभिधीयमानश्च प्रधानेऽप्युपयुज्यते" ॥ १ ॥ इति । यदा तु पुरुषस्यैव परार्थत्वेन विवक्षा तदा ततः षष्ठी भवत्येव 'पुरुषस्य राजे' ति । गुणप्रधानभावश्चैकस्याऽपेक्षाभेदेन सम्भवत्येव, एकस्यैव चैत्रादेरपेक्षाभेदेन पितापुत्रत्वादिवदिति स्याद्वादो विजयते ।
ननु कर्मादेरपि क्रियादिभिः सम्बन्ध इति तत्राऽपि षष्ठी
.
. १ परः स्वभिन्नः पुरुषादिरर्थः प्रयोजनं विशेषणीयत्वादिना यस्य स तादृशस्तस्य मावस्तेन रूपेण, पुरुषादिविशेषणतयेत्यर्थः । परं विशेषयितुमिति यावत् । अत एव विशेष्याऽनुक्तावपि केवलाद् राज्ञ इत्यादिपदादपि सम्बन्ध. सामान्यस्योपस्थितिः । यदि च तत्त्वेन विवक्षा न स्यात्तथा प्रतीतिरपि न स्यात् । एवञ्च तादृशविवक्षाबलादेव केवलादपि तथा प्रतीतिरिति भावः ।