SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् कलायमात्रेप्वानेषु गतः पक्वेषु चागतः भव्येषु मुच्यमानेषु यदभव्याः समासते । मोदमानेप्वभव्येषु भव्याः क्लिश्यन्ति तद्भवे ॥ १७ ॥ सङ्गृहीतो विशेषोऽयं सप्तमीविषये यथा । परिशिष्टे तथाऽन्योऽपि वक्ष्यते शास्त्रसम्मतः ॥ १८ ॥ अथोक्तयुक्त्या सम्बन्धस्याऽपि कारकत्वव्यवस्थापनात्तदर्थे जायमानां षष्ठी निरूपयति अस्याऽयमिति सम्बन्धः षष्ठ्युत्पत्तिर : मुख्यतः । स कारकविशेषाणां विवक्षाऽभावलक्षणः ॥ ६७ ॥ अस्याऽयमिति । अस्याऽयमिति शब्दप्रवृत्तिर्यतः स इत्यर्थः । अस्याऽयमिति शब्दप्रवृत्तिनिमित्तमिति यावत् । नहि सम्बन्धं विनाऽस्याऽयमिति प्रतिपादयितुं शक्यम् , अतिप्रसङ्गात् । षष्ठ्युत्पत्तिरिति । तत्रेत्यादिः । सम्बन्धरूपेऽर्थ इत्यर्थः । नन्वेवं सम्बन्धस्य द्विष्ठत्वाद्राज्ञः पुरुष इत्यादौ पुरुषपदादपि षष्ठी प्राप्नोतीति चेन्न । तदाह-अमुख्यत इति । गौणादित्यर्थः । मुख्यत्वं हि क्रियापदसामानाधिकरण्यम् । तच्च पुरुषस्य न राजपदस्येति पुरुषपदात्प्रथमा राजपदाच्च षष्ठीति विवेकः । "स्तु मुख्यतः । यस्माद्भवन्ति सर्वाणि कारकाणि विवक्षया" इति क० ग० पाठः । स तूपेक्षितः, नहि यतः शेषे षष्ठी ततो विवक्षया सर्वाणि कारकाणि भवन्ति । किञ्च 'विवक्षातः कारकाणी ति परिभाषणासर्वत्रैव विवक्षया सर्वाणि कारकाणी ति सर्वत्र षष्ठयापत्तिरेव स्यात् ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy