SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ * कारक विवरणम् त्येतावतैवोक्तरी १ त्येष्टसिद्धेः । न च क्रियापदाऽनुक्तौ देवदत्ताद्याधारत्वमात्रेणाऽधिकरणसंज्ञाप्रवृत्तौ तस्य कारकत्वाऽनापत्तिरिति वाच्यम् । कारकाऽधिकारात्क्रियाऽनाश्रयस्याऽधिकरणसंज्ञाऽसम्भवात् कर्तृकर्म-द्वारा क्रियाश्रयत्वस्यैवाधारपदप्रवृत्तिनिमित्तत्वाच्चेति । अधिकरणभेदान्निरूपयितुमाह-पट्प्रकारमिति । के ते प्रकारा इत्यपेक्षायामाह -वैषयिकौपश्लेषिके इत्यादिना । वैषयिकम्, औपश्लेषिकम्, अभिव्यापकम् नैमित्तिकम्, सामीप्यकम्, औपचारिकमित्यर्थः । अन्तिममिति । षष्ठमित्यर्थः ॥ ६० ॥ " वैषयिकस्य स्वरूपनिदर्शनपूर्वकमुदाहरणमाहविषयोऽनन्यभावो दिवि देवाः स्थिता यथा ॥ ६१ ॥ अनन्यत्र भाव इति । अन्यत्र प्रवृत्त्यभाव इत्यर्थः । यस्य ――――――――― I हि यत्र प्रवृत्तिः, स तस्य विषयः । यथा चक्षुरादीनां रूपादयः । दिवि च देवानां प्रवृत्तिनाऽन्यत्रेति तेषां द्यौर्विषय इति विषयाय शक्तमिति वैषयिकमधिकरणं द्यौरिति भावः ॥ ६१ ॥ औपश्लेषिकमधिकरणमाह एकदेशेन संयोग उपश्लेपः समीरितः । यथा चैत्रः कट आस्ते गृहे तिष्ठति वा गृही ॥ ६२ ॥ संयोग इति । सम्बन्ध इत्यर्थः । न तु संयोग एव सम्बन्धः, १ आधारपदस्य क्रियाश्रयाश्रये रूढत्वात् कर्तृकर्मद्वारा क्रियाश्रयत्वमादाय चेति तात्पर्यम् >
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy