________________
कारकविवरणम्
वृक्षे शाखेत्यादौ संयोगाऽभावात् । उपश्लेष एवौपश्लेषिकम् । कटादेश्च देवदत्तादिनैकदेशमात्रसंयोग इति कटादीनामौपश्लेषिकाऽधिकरणत्वम् ॥ ६२ ॥
अभिव्यापकमधिकरणमाहयत्र सर्वाङ्गसंयोगस्तदभिव्यापकं मतम् । यथा तिलेषु तैलं स्याघृतं स्यादनि वा यथा ॥६३॥
सर्वाङ्गसंयोग इति । संयोगसमवायादिना सीवयकव्याप्तिरित्यर्थः । सा चाऽऽधेयावयवैराधारावयवानामाधारावयवैराधेयावय-- वानां वेत्युभयथाऽपि सम्भवति । तिलेषु तैलमित्यादौ तिलाद्यवयवास्तैलाद्यवयवांस्तैलाद्यवयवा वा तिलाद्यवयवान् व्याप्पाऽवतिष्ठन्ते । गवि गोत्वमित्यादौ तु गोत्वादिना व्यक्ते ने तु व्यक्त्या गोत्वादेरभिव्याप्तिरित्यवधेयम् ॥ ६३ ॥
नैमित्तिकमधिकरणमाहयस्य यत्स्यानिमित्तं तनैमित्तिकमुदाहृतम् । युद्धे सन्नह्यते ३ योधश्छायायामाचसित्यसौ ॥ ६४ ॥
नैमित्तिकमिति । निमित्तमेव नैमित्तिकम् । विनयादित्वात्स्वार्थे इकण् । अत्र सन्नहनादीनामन्यत्राऽपि सम्भवादनन्यभावाऽभावान्न
१ 'हन्ति दन्तयोः कुञ्जरं यथा' इति क० ग० पाठः । परमत्र व्याप्यसम्बन्धाद्धेतौ सप्तमी न त्वधिकरणे इत्युपपदविभक्ति न कारकविभक्तिरित्यधिकरणोदाहरणप्रसङ्गे नाऽस्मोल्लेख उचित इत्युपेक्षितम् ।