________________
कारकविवरणम्
साक्षाक्रियाश्रयस्य लाभे परम्परया तदाश्रयस्याऽधिकरणत्वस्याऽन्याय्यत्वात् । गौणमुख्ययो मुख्य कार्यसम्प्रत्ययपरिभाषणात् क्रियाश्रयस्थ कर्तुः कर्मण एव चाऽधिकरणत्वाऽपत्तेः ।
यदि तु का दिसंज्ञाभिः स्वविषये तबाधेनाऽगत्या गौणस्यैव तत्त्वम् , आधारपदं च क्रियाश्रयाश्रय एव रूढम् । एवञ्चाऽऽधारपदाक्रियाश्रयमात्रस्योपस्थितिरपि न सम्भवति । न च योगात्तथोपस्थितिः, रूढेर्बलीयस्त्वात् , तथोपस्थितावप्युक्त १ युक्तेरदोषाच्च । अत एव पाणिनीयादा 'वाधारोऽधिकरणमि' त्येतावन्मात्रमेवोक्तमिति विभाव्यते, तदा क्रियाश्रयस्येत्यनुपादेयमेव ।
यत्तु-'क्रियाधार' इत्येतावत्युच्यमाने साक्षात् क्रियाधारभूतयोः कर्तृकर्मणोरेव संज्ञा स्यान्न तु तदाश्रयस्य कटादेः, मुख्याभावे हि गौणाश्रयणं स्यात् । न च कर्तृकर्मणोः कर्तृकर्मसंज्ञाभ्यां अधितत्वान्मुख्याऽसम्भवाद्वौणस्वीकार इति वाच्यम् । कर्मस्थक्रियेषु कर्तुः क्रियाश्रयत्वाभावादस्याऽप्रवृत्तौ कर्तृसंज्ञायाश्चरितार्थत्वात् , कर्तृस्थक्रियेषु च कर्मणः क्रियाश्रयत्वाऽभावात्कर्मसंज्ञायाः, तस्मादाश्रयस्येति कर्तव्यमि' ति । तत्रैतन्न विद्मो यत्कर्मस्थक्रियादिषु यदि नाम कत्रादिने क्रियाश्रयस्तदा कथं नाम तस्य कर्तृत्वाद्यपि ?, कियाश्रयस्यैव कारकत्वात् । क्रियाग्रहणं चाऽपि निष्प्रयोजनम् । आधारोऽधिकरणमि
१ कर्तृकर्मद्वारा क्रियाश्रयत्वमादांयेत्यादियुक्ते रित्यर्थः । .