________________
२६
कारक विवरणम्
इत्यादयोऽपि प्रयोगाः सङ्गच्छन्ते । ननु व्याकरणान्तरे ईदृशस्थलेषु पञ्चम्यर्थे यत्नान्तरं कृतम् । तत्र चेदृशस्थले नित्यैव पञ्चमी विहिता । तब मते च तादृशविभागाऽविवक्षणे विभक्त्यन्तरस्याऽप्यापत्तिरिति चेत् भवत्येव । तथा च प्रयोगाः - ' बलाहके विद्योतते बलाहकं विद्योतते, अधर्ममधर्मेण वा जुगुप्सते, मौर्येण प्रमाद्यति, चौरेण चैौरेषु चौराणां वा बिभेति, भोजनेन पराजयते, शत्रून् पराजयते, यवेषु गां वारयति, शृङ्गे शरो जायते ' इत्यादयः । अधिकमन्यत्रा - Sनुसन्धेयम् । विस्तरभयात्ततो विरम्यते इति ।
अथाऽधिकरणं निरूपयति
स्यादाधारोऽधिकरणं षट्प्रकारं च तद्विदुः । १ वैषयिक पश्लेषिके अभिव्यापकमेव च ।। ६० ॥ नैमित्तिकं सामीप्यकमौपचारिकमन्तिमम् । आधार इति । क्रियाश्रयस्येति शेषः । यदुक्तम् -
" कर्तृकर्मव्यवहितामसाक्षाद् धारयक्रियाम् । उपकुर्वक्रियासिद्धी शास्त्रेऽधिकरणं स्मृतम् " ॥ १ ॥ इति । अन्यथा क्रियाया एवाधारस्याऽधिकरणसंज्ञापत्तिः स्यात् । ननुकर्तृकर्मद्वारा क्रियाश्रयत्वमादायैव कारकत्वात्क्रियाश्रयस्याऽप्यधिकरणसंज्ञेति क्रियाश्रयत्वमात्रतोऽपीष्टाऽधिकरणत्वं सिद्धयत्येवेति चेन्न ।
,
१' वैषयिकमपश्लेषिकमिति ग० पाठः । 'मुपश्लेषिकमि ति क० पाठः ।