________________
कारक विवरणम्
पञ्चमी वा यथा जाड्याद्वद्धो मुक्तः स पाटवात् ॥ १२ ॥ दूरान्तिकार्थे युक्ताद्वा पञ्चमी गौणतो मता ।
आराच्छब्देन नित्यं तु ग्रामाद्दूरं स्थितो मुनिः ॥ १३ ॥ स्तोककृच्छ्राऽल्पकतिपयशब्देभ्यश्च वा पञ्चमी करणे । असत्त्वे वृत्तिमद्भयो जिनभक्तो मुच्यते स्तोकात् ॥ १४ ॥ सगृहीतो विशेषोऽयं पञ्चमीविषये पुनः । वक्ष्यते स यथाशास्त्रं परिशिष्टे कियानपि
॥ १५ ॥
ननु संयोगनाशको गुणो विभागः, संयोगश्च द्रव्ययोरेवेति संसाराद्बिभेति, संसारात्त्रायते ' इत्यादौ तादृशविभागाऽप्रतीतेः कथमपादानत्वमिति चेत्, उच्यते - अत्र हि विभागः कायसंसर्गपूर्वको बुद्धिसंसर्गपूर्वकश्च गृह्यते । यत्र च कायसंसर्गपूर्वकस्य तस्य न सम्भवस्तत्र बुद्धिसंसर्गपूर्वकविभागमादायैवाऽपादानता । उक्तोदाहरणयोश्च वधबन्धादिप्रयोजकं संसारं बुद्ध्या प्राप्य ततो निवर्त्तत इति बिभेतीत्युच्यते । संसारमग्नोऽयं महाक्लेशभागिति जनं कोऽपि ततो निवर्त्तयतीति त्रायते इत्युच्यते । ततश्चोभयत्र बुद्धिसंसर्गपूर्वको विभागः स्पष्ट एव । यदुक्तम्
66
बुद्धया समीहितैकत्वान् पञ्चालान् कुरुभिर्यदा । बुद्ध्या विभजते वक्ता तदाऽपायः प्रतीयते " ॥१॥ इति । अत एव च -
१५
"गोलोम्नो जायते दूर्वा गोमयावृश्चिकः स्मृतः । गोदोहाद गोरसं प्राहु गङ्गादुच्यते शरः
"" ॥ १ ॥