________________
३४
कारक विवरणम्
पञ्चमी गौणतो नान्नो १ गुरोः परि कुतो मतिः ? यमपेक्ष्य प्रतिनिधिप्रतिदाने तदर्थकात् । गौणतः प्रतिना युक्तान्नामतः पञ्चमी भवेत् आचार्यात्प्रत्युपाध्यायो युवराजो नृपात्प्रति । तिलेभ्यः प्रति मैत्रोऽयं माषानस्मै प्रयच्छति विद्यायाश्चदधिगमो नियमाद् गौणतस्तदा । आख्यातरि वर्त्तमानात्पञ्चमी नामतो भवेत् रत्नत्रयेोपसेवासु तत्पराः साधवोऽनिशम् । उपाध्यायाद् धीविशुद्धात्साङ्गोपाङ्गमधीयते गम्यस्य यौ यन्तस्य कर्मधारौ तदर्थकात् । पञ्चमी गौणतः २ सौधादासनादवलोकते प्रभृत्यर्थैस्तथाऽन्यार्थैर्दिक्शब्दे श् श्वेतरेण च । बहिराराध्वनिभ्यां च पञ्चमी गौणतोऽन्वितात् भवात्प्रभृति सेव्योऽन्यः को जिनाद्यो भवात्परः । न गच्छेदितरो भव्याद्बहिश्च भवचक्रतः फलसाधनयोग्यत्वादृणं हेतुर्यदा भवेत् । तदर्थात्पञ्चमी गौणात्तदा, बद्धः शताद्यथा अस्त्रीवृत्ते र्हेतुभूतगुणार्थीद्गौणतो भवेत् ।
॥ ३ ॥
॥ ४ ॥
॥ ५ ॥
॥ ६ ॥
॥ ७ ॥
॥ ८ ॥
॥ ९ ॥
1120 11
॥ ११ ॥
१ गुरुं परिवर्ज्याऽन्यतो बोधो न सम्भवतीत्यर्थः ।
२ सौमारुह्य आसने उपविश्येत्यर्थः । ३ इतरशब्देनेत्यर्थः ।