SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् " निर्दिष्टविषयं किञ्चिदुपान्तविषयं तथा । अपेक्षितक्रियं चेति विधाऽपादानमुच्यते" ॥ १ ॥ इति । तत्र, निर्दिष्टविषयमिति । निर्दिष्टो धातुना साक्षाबोधितो विषयो निरूपकोऽर्थो यस्य तत् । विभागजनकक्रियार्थको धातुनिदिश्यते यत्र तदित्यर्थः । यथा .वृक्षात्पर्णानि पतन्तीत्यादौ । उपात्तः समभिव्याहृतधातुना लक्षितो विषयो विभागजनकक्रियारूपो यत्र तदुपात्तविषयम् । यथा कुशूलात्पचतीत्यादौ । अत्र कुशूले. नाऽन्वयाऽनुपपत्तेरादानविशेषितपाकं पचिलक्षयति । आदानं च विभागजनकव्यापार एव । अपेक्षिता प्रतीयमाना क्रिया तद्वाचकपदश्रुत्यभावाद्यत्र तदपेक्षितक्रियम् । अनुपात्तधात्वर्थक्रियासाकाङ्क्षमिति यावत् । यथा--कुतो भवान् ?, पाटलिपुत्रादित्यादौ । एवमादिषु वाक्येषु विभागजनकाऽऽगमनादिक्रियाऽध्याहारेणाऽन्वयः ॥ ५९ ॥ अथ पञ्चमीविषये विशेषः सङ्ग्रह्योच्यतेअपादानात्पञ्चमी स्याद्गौणादाङा तथाऽन्वितात् । मयादायां चाऽभिविधौ १ वर्तमानेन नामतः ॥१॥ भव्यो बिभेति संसारात्तं ततस्त्रायते जिनः । २ दुःखमाजन्मनोऽवश्यमा मुक्तेश्च भवस्थितिः ॥२॥ पर्यपाभ्यामन्वितात्स्याद्वज्येऽर्थे वर्तमानतः । १ वर्तमानेन आङा इत्यन्धयः । २ अत्राऽमिविधावाङ, परत्र च मर्यादायामिति बोध्यम् ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy