________________
कारकविवरणम्
ननु विश्लेषो विभागः । स च संयोग इव द्विष्ठः । तथा च वृक्षादिव पादप्यपादानत्वमाफ्ततीति चेन्न । विश्लेषजनकक्रियाऽनाश्रयत्वे सति विश्लेषाश्रयत्वरूपस्याऽधित्वस्येह विवक्षितत्वात् । अतो यस्मादपाय इत्युक्तम् । यद्यपि पर्णस्य क्रियाऽनाश्रयत्वविरहादेवाऽपादानत्ववारणम् , तथाऽपि कुड्यात्क्ततोऽश्वात्पततीत्यादावश्वादेः क्रियाश्रयतयाऽव्याप्ति मी प्रसाङ्क्षीदिति विश्लेषजनकेति ।
न चैवमप्यत्राऽव्याप्तिरेव, अश्वस्य पततो विश्लेषहेतुक्रियाश्रयत्वादिति वाच्यम् । तद्विश्लेषहेतुक्रियानाश्रयत्वे तात्पर्यात् । अत एव परस्परस्मान्मेषावपसरत इत्यादावपि विभागैक्येऽपि तत्तन्मेषगतक्रियाभेदादेकक्रियामादायाऽपरस्याऽपादानत्वमित्यवधेयम् । ततश्च तद्विश्लेषाश्रयत्वे सति तद्विश्लषजनकतक्रियाऽनाश्रयत्वमपादानत्वमिति निष्कर्षः । तदुक्तं हरिणा
“अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवाऽतदाकेशात्तदपादानमुच्यते ॥ १ ॥ पततो ध्रुवः एमाऽश्वो यस्मादश्चात्पतत्यसौ । तस्याऽप्यश्वस्य पतने कुड्यादि ध्रुवमुच्यते ॥ २ ॥ उभावण्यध्रुवौ मेषौ यद्यप्युभयकर्मजे । विभागे, प्रविभक्ते तु क्रिये तत्र व्यवस्थिते ॥ ३ ॥ मेषान्तरक्रियापेक्षमवधित्वं पृथक्पृथक् ।
मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक्पृथक् ” ॥ ४ ॥ इति । एतच्चाऽपादानं त्रिविधम् । यथाह हरिः -