________________
कारकविवरणम्
१ कियत्कालाऽऽत्मसात्कारे करणं वेतनादि यत् । तदर्थाद् गौणतो नाम्नश्चतुर्थी वा विधीयते ॥ २५ ॥ तच्छताय परिक्रीतं तुभ्यं मासं गृहं शुभे!। सम्भोगाय परिक्रीते ! कताऽस्मि तव यत् प्रियम् ॥ २६ ॥ नमः स्वस्तिस्वधास्वाहावषड्भि hणनामतः । शक्तार्थश्चाऽन्वितान्नित्यं चतुर्थीह विधीयते ॥ २७ ॥ अपारदुःखाऽकूपारपाराय प्रभविष्णवे । नमो भाव्याऽब्जमित्राय सङ्घाय च ज़िनाय च ॥ २८ ॥ सङ्ग्रह्योक्तो विशेषोऽयं चतुर्थी विषये पुनः । परिशिष्ट प्रवक्ष्यामि शिष्टं शास्त्रानुसारतः अथाऽपादानं निरूपयतियस्मादपायस्तदपादानं तदचलं चलम् ।। २ वृक्षात्पतन्ति पर्णानि धावतोऽश्वात्पपात च ॥५९ ॥
यस्मादिति । अपायो विश्लेषः, तथा च यदवधिकोऽपायस्तदपादानमित्यर्थः । अवधिश्च विश्लेषाश्रयः, तच्च विश्लेषाश्रयात्मकमपादानमचलं स्थिरं चलमस्थिरं चेति द्विविधं भवति । तत्र क्रमेणोदाहरणमाह-वृक्षादिति । अत्र हि वृक्षोऽवधिरचलः, अश्वरूपस्तु धावत इति विशेषणाच्चलः प्रतीयते ।
१ नियतकालं स्वाधीनीकरण इत्यर्थः । २ 'पतति पर्ण चें। ति क० ग० पाठः ।