________________
६...
कारकविवरणम्
तिष्ठते पौरकन्याभ्यो मित्राय शपते यथा ॥१६॥ भाववाचिघञाद्यन्तात्तुमोऽर्थे गौणतो मता। स्वार्थे चतुर्थी पाकाय याति सूदो महानसम् ॥ १७ ॥ तुमोऽर्थे गम्यमाने स्यात्तव्याप्याद् गौणतः पुनः । चतुर्थी सा गताऽरण्यं खिन्ना निनामिकै १ धसे ॥ १८ ॥ २ पादविहारात्मगतरनाक्रान्ताऽऽप्यवृत्तिकात् । चतुर्थी गौणतो वा स्याद् ग्रामं ग्रामाय वैति सः॥ १९ ॥ मन्यस्य गौणतो व्याप्यान्नावादिभ्यो विवर्जितात् । चतुर्थी वा ततः कुत्साऽऽधिक्यं चेत्प्रतिपाद्यते ॥२०॥ न त्वा तृणाय मन्येऽहं न त्वा मन्ये तृणं यथा । कुत्सामात्रे केचिदाहुः षष्ठी ज्ञेया ३ कृदन्वये ॥२१॥ युक्ताद् हितसुखाभ्यां च चतुर्थी गौणतो भवेत् । सुखं लोकाय सन्तोषो विजनं मुनये हितम् ॥ २२ ॥ आयुष्यक्षेमभद्रार्थार्थकैर्युक्तात्तथाऽऽशिषि । गौणाद् हितसुखार्थी चतुर्थी नामतो भवेत् ॥ २३ ॥ आयुष्यमस्तु श्राद्धेभ्यः क्षेममर्थं हितं सुखम् । भद्रं च जैनधर्मीय धर्ममुख्याय भूतले ॥ २४ ॥
१ एधांस्याहर्तुमित्यर्थः ।
२ पादविहाररूपा या गति स्तस्या य अनाक्रान्तोऽप्राप्त आप्यो व्याप्यस्तद्वाचकादित्यर्थः । ३ कृद्योगे इत्यर्थः ।