SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् ॥ ७ ॥ ॥१०॥ मैत्राय रोचते धर्मः श्लेष्मणे जायते दधि । धारयत्येकोनशतं चैत्रो मैत्राय मासिकम् प्रत्यापूर्वश्रुवा योगे गौणान्नानोऽभिलाषुके । याचमानेऽयाचमाने चतुर्थी वर्तमानतः आख्यातरि वर्तमानात्प्रत्यनुभ्यां परेण च । योगे गृणातिना गौणाच्चतुर्थी नामतो मता प्रतिशृणोति विप्राय गां भूमि कनकं च सः । आचार्यायोपदिशतेऽनुगृणालि च तत्परः यस्याऽभिप्रायदैवादेः सन्देहविषयस्य चेत् । निरूपणे स्तो राधीक्षी चतुर्थी गौणतस्ततः सन्देहविषये दैवे एव केचित्परे पुनः । राधीक्ष्यर्थधातुयोगेऽपीच्छन्ति १ विषयादपि यथेक्षते परस्त्रीभ्यो गर्गः कृष्णाय सध्यति । स साधयति मैत्राय वणिग् लामा पश्यति आकस्मिकनिमित्तन ज्ञाप्यमानार्थवृत्तिकात् । गौणान्नाम्नश्चतुर्थी स्याद्वाताय कपिला तडित् तिष्ठति ह्नुतिशपतिश्लाधिधातुभिरन्वितात् । चतुर्थी गौणतो नाम्नः प्रयोज्ये वर्तमानतः श्लाघते स्वं स मैत्राय सहस्रं वणिजे हनुले । ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ ॥ १५ ॥ १ यद्विषयकं राधनादि तस्मादित्यर्थः । .
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy