________________
५४
कारकविवरणम्
व्यापारत्रयस्य यथायथं सम्भवात्तन्मूलकं त्रैविध्यमाह-अनुमन्त्रिति । यदुक्तम्• " भनिराकरणाकरतु रस्यागाङ्गं कर्मणेप्सितम् । प्रेरणाऽनुमतिभ्यां च लभते सम्प्रदानतामि" ति ॥ १ ॥ अनुमन्त्रनिराकर्तृ प्रेरकं त्यागकारणम् । व्याप्येनाऽऽतं ददातेस्तु लभते सम्प्रदानतामि" ति च ॥२॥५२॥
अनुमन्तृसम्प्रदानमाहददामीति वचः श्रुत्वैवं १ कुर्वित्यनुमन्यते । अनुमन्तु तदेव स्याद् गुरवे गां ददातिवत् ॥६३॥
अनुमन्त्रिति । सम्प्रदानमित्यनुषज्यते । अत एव नपुंसकनिदेशः। एवमग्रेऽपि । गुरवे इति । अत्र हि गुरु ने प्रेरको न वा निषेधकः, किन्तु तुभ्यं गां ददामीति पूजादिकाम्यया शिष्यं प्रार्थयमान ' मेवं कुरु, देहि वे' त्येवमादिप्रकारेणाऽनुमन्यत इति गुरुरनुमन्तृ सम्प्रदानम् ॥ ५३ ॥
प्रेरकमाहयद्देहीति भणित्वा च दातारं प्रेरयेन्मुहुः २ । तत्प्रेरकमिति प्रोक्तं भिक्षां देहि द्विजायवत् ॥५४॥
मुहुरिति । अतन्त्रमिदम् । सकृदपि हि प्रेरणे प्रेरकमेव भवति, प्रेरको हि वारं वारं प्रेरयतीत्युत्सर्ग एव न तु नियमः ।
'श्रुत्वेत्येवं कुर्वनुमन्यते । इत्थं तदनुमन्तृ स्यादि' ति क० ग० पाठः २ 'यत्यहो' इति क० ग० पाठः ।