SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ कारक विवरणम् द्विजायवदिति । द्विजायेति यथेत्यर्थः । अत्र हि भिक्षां देहीति प्रेरयन् द्विजः प्रेरकं सम्प्रदानम् ॥ ५४ ॥ : अनिराकर्त्रीह फलमाह ―――――――― अनुमन्येत यो नैव मूकवत्प्रेरयेन वा । भवेत्तदनिराकर्तृ वलिं दत्ते सुरायवत् ॥ ५५ ॥ अनुमन्येतेत्यादि । न निषेधेदित्यपि बोध्यम् । अनिराकर्तृशब्दस्वरसात् । मूकवदिति । मूको हि वागभावादनुमननप्रेरणयोरशक्तः, तद्वदित्यर्थः । इङ्गितादिना तु तत्कर्तुं शक्नोत्यपि । किंतु प्रेरणादिव्यापारहीनः ' किं मूकवत्तिष्ठसी ' त्यादिदर्शनान्मूकत्वेन व्यपदिश्यत इतीयमुपमा बोध्या । वलिमिति । देवो हि नाऽनुमन्यते, न निषेधति, न वा प्रेरयतीति तदनिराकर्तृ सम्प्रदानम् ॥ ५५ ॥ यस्मै दानमित्यनुक्त्या दित्सोतेः पूजादिकामनोक्तेश्व ५५ राज्ञो दण्डं मतःपृष्ठं दत्ते २ दित्सा न गम्यते । शतं भट्टस्य दत्तेन नाचीनुग्रहकामना || ५६ ॥ 6 ' यन्नाऽनुमन्यते नाऽपि प्रेरयेत्किन्तु मूकवत् । भवेत्तदनिराकर्तृ दत्ते देवाय हेमवत्' इति क० ग० पाठः । २ ' दित्साsa नास्त्यहो ' इति क० पाठः । ' दित्सा च नास्त्यहो ' इति ग० पाठ: । ३'नालाऽनुग्रहकाम्यया इति क० पाठः । , इति ग० पाठः । ' नाच ISनुग्रहकाम्यया '
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy