________________
कारकविवरणम्
वीप्सायां व्याप्येभ्यः स्याद् द्विद्रोणादिभ्यो गौणेभ्यः । विभक्ति वी तृतीया द्विद्रोणेन धान्यं दत्ते ॥ १४ ॥ सम्पूर्वाज्जानातेरस्मृत्यर्थस्य व्याप्याद् गौणात् । . वा विधेया तृतीया मात्रा सञ्जानीते शिशुः ॥ १५ ॥ सप्तमी वा द्वितीया ज्ञातव्यैषु पक्षे यथायोगम् । पुष्ये पायसमद्यात्सञ्जानीते च मातरं बालः ॥ १६ ॥ सम्प्रपूर्वस्य दामः सम्प्रदानेऽधर्म्य वृत्तात् । . तृतीयाऽऽत्मनेपदं च तत्सन्नियोगे विधेयं दामः ॥ १७ ॥ द्रव्यं दास्या कामी सम्प्रयच्छते धिगिन्द्रियवशत्वम् । यदपहरते विवेकं विधिनिषेधयो बलाज्जन्तोः ॥ १८ ॥ विशेषविधिस्तदेवं तृतीयाया दर्शितोऽवगन्तव्यः । अनुशिष्टश्च विशेषः परिशिष्टे वक्ष्यते शिष्टः ॥१९॥ सम्प्रदानं निरूपयन्नाहसम्प्रदानं यस्मै दित्सा पूजाऽनुग्रहकाम्यया । अनुमन्तृप्रेरकमनिराकर्तृ विधेति तत् ॥५२॥
यस्मै दित्सेति । यमुद्विश्य पूजादिकामनया दानक्रियाप्रवृत्तिस्तदित्यर्थः । एतच्च सम्प्रददात्यस्मा इत्यन्वर्थत्वं संज्ञाया अनुरुध्य । एवञ्चैतन्मते ददातिक्रियाविषय एव सम्प्रदानसंज्ञा । “पत्ये शेते' इत्यादौ चैवं तादादौ यथाकथञ्चिच्चतुर्थी निर्वाह्या । अवान्तरव्यापारवत एव कारकत्वात्सम्प्रदाने चाऽनुमतिप्रेरणाऽनिराकरणरूप