SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् फलस्य विवक्षितस्य क्रियायाश्चेद् द्योत्यते निष्पत्तिः । कालाऽध्ववृत्तिगौणात्तृतीया १ व्याप्तौ गम्यायाम् ॥५॥ यदहा बध्यते कर्म तत्पदेन विलीयते । यदि यान्ति जिन नन्तुं जना भक्त्या जिनालयम् ॥६॥ अर्थतः शब्दतो वा सहाथै गम्ये तृतीया गौणात् ।। तिलैः सह वपति माषान् दशभिः पुत्रैर्वहति खरी भारम् ॥७॥ जनः सुखेनैति शिवं निषेवते यो जिनोक्तिमिह भक्त्या । विषयविषमूढबुद्धि दुःखेन जीवति भवे नियतम् ॥८॥ २ प्रकारवतः प्रकारैर्यदि प्रकारवदर्थयुजः ख्यातिः । तदा प्रकारवदर्थात्स्यात्तृतीया नाम्नो गौणात् अक्ष्णा काणोऽत्र खलः प्रायेणेति लोकश्रुतिः ख्याता । . प्रकृत्या दर्शनीयो गिरा मृदुः साधुचरितश्च ॥ १० ॥ निषेधार्थैः कृताधैर्युक्ताद्विधेया तृतीया गौणात् । कृतमत्र ते वचोभिः किं गतेनाऽलमतिप्रसङ्गेन ॥ ११ ॥ नक्षत्राऽर्थात्काले वृत्तादाधारे गौणान्नाम्नः । । प्रसितोत्सुकाऽवबद्धै युक्तात्तृतीया विकल्पेन ॥ १२ ॥ पललौदनं मघाभि भोक्तव्यं पायसं च पुष्येण । केशैः स्त्रिया प्रसितया कामिजनोऽत्युत्सुको भवति ॥ १३ ॥ १ व्याप्ति द्रव्यगुणादिभिर्निरन्तरसम्बन्धः । २ प्रकार इतरेभ्यो भेदकः स्वगतो विशेषः, यथाऽक्ष्णः काणत्वादिः । ख्यातिरभिधानम् ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy