________________
कारकविवरणम्
कत्वमेव, न तु कस्याऽपि प्रकृष्टोपकारकत्वम् । तथाप्यत्र क्रियासिद्धावव्यधानेनोपकारकत्वेन विवक्षितत्वमेव प्रकृष्टोपकारकत्वं बोध्यम् । यद्व्यापाराऽव्यवधानेन क्रियासिद्धिर्विवक्ष्यते तदिति यावत् ।
तच्च करणं द्विविधमित्याह-बाह्यमिति । १ बाह्यं दात्रादि, आभ्यन्तरं मनआत्मादिः । क्रमेणोदाहरणमाह-वीहीनित्यादि । दात्रव्यापाराऽव्यवधानेन लवनक्रियासिद्धर्मनोव्यापाराऽव्यवधानेन गमनक्रियासिद्धेश्चाऽभिप्रेतत्वादात्रमनसोः करणतया तृतीया बोध्या ॥५०॥
यत्र चैकत्र क्रियासिद्वौ सम्भूयाऽनेकेषामव्यवधानेनोपकारकत्वं विवक्षितं तत्र तेषां सर्वेषामेव करणत्वम् , न तु तेष्वपि प्रकर्षोऽन्वेषणीय इत्याह--
२ प्रकर्षो न स्वकक्षायां कारकान्तरतोऽस्य सः ।
(४८ पृष्टे ९ पङ्क्तौ-' भवती' ति । एवञ्च युगपदेव काष्ठस्थाल्यादिव्यापाराऽव्यवधानेन क्रियासिद्विविवक्षायां 'काष्ठैः स्थाल्या पच्यत' इत्येवमाद्यपि वाक्यं भवतीति बोध्यम् ।)
(४८ पृष्ठे १४ पङ्क्तौ-तदनिर्देश्यमि' ति । तत्करणमनिर्देश्यम् , एतत्करणमित्येवं निर्देशं नाऽहतीत्यर्थः । हि यतो वस्तु व्यवस्थितमेतत्करणमेव कर्मैव वेत्येवमादिप्रकारेण निर्णीतव्यवस्थाकं नास्तीत्यर्थः ।)
१ बाह्यमिन्द्रियविषयमाभ्यंतरं तद्भिन्नमित्येवं द्विधेत्यर्थः ।
२ कारकान्तरतश्चाऽस्य प्रकर्षों न खकक्षया । दात्रैः शस्त्रनखैवल्यो लूनास्तद्बहुधाऽपि तत् ” इति क० पाठः । ग० पुस्तके तु 'दारि' त्यस्य स्थाने 'दात्रेणे' ति पाठः ।