________________
RU
कारकविवरणम्
वत्कारणं करणभित्ोवोच्यताम् । ततश्च विवक्ष्यत इत्यधिकम् , । तादृशस्य करमत्वनियमात् , नहि वास्यादिश्छिदिक्रियायां कदाचिदप्यकरणमिति चेन्न। एवं सति पाकक्रियायां काष्ठादेरिव स्थाल्यादेरपि युगपदेव करणत्वं स्यात् , पाकक्रियायामव्यवधानेन व्यापारवत्त्वात् । ततश्च काष्ठैः स्थाल्या. पचतीत्यादिवाक्यानामसम्भव एव स्यात् । अतो ययापाराऽव्यवधानेन क्रियासिद्धि विवक्ष्यते तत्करणमित्यकामेनाऽप्यभ्युपगन्तव्यम् । एवञ्च काष्ठव्यापाराऽव्यवधानेनैव पाकक्रियासिद्धिविवक्षायां स्थाल्यादेरधिकरणतयोक्तप्रकारवाक्यानां सम्भवो भवति । न च पाकाश्रयस्तण्डुलस्तदाश्रयश्च स्थालीति व्यवधानान्न स्थल्यादेस्तत्त्वमिति न तथाविधवाक्याऽसम्भव इति वाच्यम् । एवं तर्हि स्थाल्या पच्यत इत्यादिवाक्याऽसम्भवः, तस्माद्विवक्षाऽधीनमेव कारकम् । एवञ्च स्थालीव्यापाराऽव्यवधानेन पाकक्रियासिद्धौ विवक्षितायां तथावाक्यसम्भव इति सर्व समञ्जसम् । उक्तं च
"वस्तुतस्तदनिर्देश्य महि वस्तु ग्यवस्थितम् । स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यत" इति ॥ १ ॥
क्वचित्-'करणं साधकतम मि' ति पाठः । तत्र क्रियते येनेति करणपदव्युत्पत्तिः । साधकतममिति । अतिशयेन साधकमित्यर्थः । प्रकृष्टोपकारकमिति यावत् । क्रियासिद्धावित्यर्थबलाल्लभ्यते । क्व ह्यन्यत्र साधकतमं भवेत्कारकम् ? । . यद्यप्यन्वयव्यतिरेकतः सर्वेषामेव कारकाणां क्रियासिद्धावुपकार
अव्यवधानेन व्यापारवतः कारणस्येत्यर्थः ।