SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् अन्तरेण कथं मैत्रं पत्नी वर्तेत, धिग् विधिम् । समया पितरं तस्य मातरं निकषाऽस्तु कः? ॥ २५ ॥ येन जातो भुवं जन्तुः प्राप्तस्तेनेदृशी दशाम् । १ आधिव्याधी भवं यावन्मुक्तये तत्प्रयस्यताम् ॥ २६ ॥ द्विरुक्ताऽधोऽध्युपरिभिस्तसन्तसर्वोभयाऽभिपरिभिश्च । युक्ताद् गौणन्नाम्नो ज्ञेया द्वितीया नियमेन ॥२७ ॥ ग्राममधोऽधो ग्रामाः क्षेत्राणीह सन्त्यध्यधि ग्रामम् । उपर्युपरि चाऽरण्यं सर्वतः सरांस्युभयतो नद्योऽपि ॥ २८ ॥ अभिना युक्तानाम्नो २ लक्षणवीप्स्येत्थंभूतार्थेषु । भागिनि च प्रतिपर्यनुभि भवति द्वितीया वृत्तिमतः ॥ २९॥ · द्योतते तरुमभि तडिद् वृक्षं वृक्षमनु मालिक: सिञ्चति । साधुः शिशुः प्रसूं प्रति ३ स्वं परि सो दत्ते दीनाय ॥ ३० ॥ ४ जनकसहार्थविषययो वृत्ताद् द्वितीयाऽनुयुक्ताद् गौणात् । तुल्ययोगः सहार्थो विद्यमानता चाऽत्र ज्ञातव्या ॥ ३१ ॥ भक्तिमनु शर्मलाभाज्जिनजनुर्महोऽनु निर्जरा एयुः। देवाननु देवेन्द्रा व्यधु यथाविधि जिनस्नात्रम् । ॥ ३२ ॥ १ अन्येन योगेऽपीति यदुक्तं तदुदाहरणमाह - आधीत्यादि । अत्र भवपदाद् यावच्छन्दयोगे द्वितीया । २ लक्षणं ज्ञापकम् , वीप्स्य यद्वीप्स्यते तत् , इत्यंभूतः किमपि प्रकार प्राप्तः । ३ स्वं भागमित्यर्थः ४ जनक: फलोपधायकः ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy