SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ कारक विवरणम् कर्म भवति । उदाहरणमाह - भारमिति । अत्राऽणिक्कर्तुर्भृत्यस्य कर्मत्वे द्वितीया, तद्विकल्पे च तृतीया । 9 अत्रेदं बोध्यम् - हरते 'र्हारयति द्रव्यं मैत्रमि ' त्यादौ ' विहारयति मुनिं महीमि' त्यादौ च गत्यर्थत्वात् ' आहारयति बालमोदन - मि' त्यादौ चाऽऽहारार्थत्वात्प्राप्तं चौर्य द्यर्थकत्वे चाऽप्राप्तम् एवं करोते १ 'विकारयति सैन्धवानि' त्यादौ नित्याकर्मत्वात्, 'विकारयति स्वरं क्रोनि' त्यादौ च जल्पार्थत्वात्प्राप्तमुत्पादनाद्यर्थकत्वे चाप्राप्तं कर्तृकर्म विकल्प्यते । उदाहरणमाह--- भारमिति । हरतेरणिगः कर्तुर्भृत्यस्य णिगन्ते कर्तृकर्मता, तद्विकल्पे चाऽनुक्तकर्तरि तृतीया ॥ ३८ ॥ कत्ताऽऽत्मनेपदे दृश्यभिवाद्योः कर्म वा भवेत् ॥ ३९ ॥ लोकं लोकेन वाssत्मानं नृपो दर्शयते यथा । अभिवादयते पूज्यं पुत्रं पुत्रेण वा यथा । कश्चिच्चौरादिकस्याऽप्यभिवादेः २ कर्म वेच्छति ॥४०॥ ३३ आत्मनेपदे इति । आत्मनेपदविषये दृशेरभिपूर्वाद्वदेश्चाsणिक्कत्ती णौ वा कर्म भवतीत्यर्थः । आत्मनेपदविषयता च तयो " १' सैन्धवा त्रिकुर्वते, कोष्टारः स्वरं विकुर्वते' इत्यणिगवस्थायां वाक्यम् । " २ ' दः कर्म वेष्यते ' इति ग० पाठः । देः कर्म वेष्यते ' इति क० पाठः । ३. षट्पदी | 5*
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy