________________
३२
कारकविवरणम्
ततश्च वाहयति भारं चैत्रेणेत्येव प्रयोगः, चैत्रस्य वाहनत्वेनाऽप्रसिद्धेरिति बोध्यम् ॥ ३५ ॥
उदाहरणमाह -
यथा खादयति ? खाद्यं पुत्रेण प्रीतिमान् पिता । ... यथा वाहयति ग्रामं भारं भृत्येन भूपतिः ॥ ३६॥
शस्यं वाहयति ग्राममुक्षाणं सारथिः पुनः । यथा भक्षयति प्रीत्या चैत्रो मैत्रेण मोदकान् ॥३७|| २ भक्षयति पुनः कोऽपि कीटकान् गृहकुक्कुटम् ।।
पुत्रेणेति । अत्र खार्ण्यन्ते कर्तृकर्मतानिषेधात्पुत्रात्कर्त्तरि तृतीया । वहेश्च ण्यन्ते भृत्यस्य वाहनत्वाऽभावान्न कर्तृकर्मतेति ततः कर्तरि तृतीया । उक्ष्णश्च वाहनत्वात्तस्य कर्तृकर्मता । मैत्रेणेति । मोदकभक्षणस्याऽहिंसात्वात्तत्कर्तुस्तृतीया ।. कीटभक्षणस्य च हिंसात्वात्तत्कर्तुः कर्मता ॥३६॥३७
सम्प्रति विकल्पेन यत्र कर्तृकर्म, तदाहकती हक्रोरपि ३ ण्यन्ते कर्म वा जायते यथा ॥ ३८ ॥ . भारं भृत्येन भृत्यं वा ग्रामं ४ हारयति नरः ।
हकोरपीति । हृधातोः कृधातोश्चेत्यर्थः । अपीति पूर्वस्माद्विशेषयोतनार्थः । तदाह-ण्यन्ते इति । अणिक्की ण्यन्ते वा
१ 'ते' इति क० ग० पाठः। २ 'पुनर्भक्षयते कोऽपि कीटकान् गृहकुक्कुटमि' ति क० ग० पाठः ।
'पीनन्ते' इति क० ग• पाठः । ४ 'ते' इति क० ग. पाठः