________________
कारकविवरणम्
रप्राप्त्यर्थाऽभावादित्याशयः । गत्यर्थ इति । देशान्तरप्राप्त्यर्थः । तथाचेदृशस्थल एवाऽणिक्की णिगि कर्मेत्याशयः ॥३४॥
अतिप्रसङ्गमाशक्य निषेधतिखादिक्रन्यदिशब्दायि १नीह्वा न कर्तकर्मकाः । २ अहिंसने तथा भक्षिर्वहिः कर्यसारथौ ॥ ३५ ॥
खादीत्यादि । खादेरदेश्वाऽऽहारार्थत्वात्कन्दिशब्दाय्यो ईय. तेश्च जल्पार्थत्वान्नीधातोश्च गत्यर्थत्वात्प्राप्तं कर्तृकर्म न भवतीत्यर्थः । न च नीधातोगत्यर्थत्वाऽभावः, प्रापणायाः प्राप्त्यनुकूलव्यापाराऽनुकूलव्यापाररूपत्वात्प्राप्तेश्च गतिपर्यायत्वात् । भक्ष्यातुर्यदा न हिंसार्थस्तदा न तत्राऽऽहारार्थत्वात्प्राप्तं कतकर्म, हिंसार्थत्वे तु भवत्येव । तथा वहेर्यदा सारथिन कती तदा तत्र प्राप्तौ नयतिवत्प्रापणे च गत्यर्थत्वादकर्मकस्य च नित्याऽकर्मत्वात्प्राप्तं कर्तृकर्म न भवति । सारथिकर्तृत्वेऽविवक्षितकर्मत्वे च नित्यमेव भवति । भक्षणस्य हिंसात्वं च प्राणोपघातात्मत्वे तदनुबन्धित्वे च बोध्यम् ।
कर्तर्यसारथावित्युपलक्षणत्वाद्वाहनत्वेन प्रसिद्धो बलीवदीदिर्यदाऽणिगन्तस्य वहे: कती तदा तत्र णिगि स कर्म भक्तीत्यर्थः । सारथिपदेन हि प्रसिद्धस्य बलीवदादे वाहनस्य वाहनक्रियायां नियोक्तृमात्रं गृह्यते, न तु रूढः सूत एव । अत एव वाहयति भारं बलीवान् मैन इत्यपि वाक्यम् । अत एवोपलक्षणतया व्याख्यातम् ।
१ 'शब्दाया' इति क. पाठः । २ 'वहोऽसार्थिककर्तृत्वे तथा भक्षिरहिंसने' इति क. पाठः ।।