________________
कारकविवरणम्
उदाहरणमाह-आचार्य इति । शिष्यो धर्म बुध्यते, तमाचार्यो बोधयतीति शिष्यमित्यणिक्कती णिगि कर्मेति कर्तृकर्मेति भावः ॥ ३२ ॥
बोधश्च सामान्यं विशेषश्चेत्याह१ बोधार्था अत्र सामान्याज ज्ञानार्थाः स्यु २ र्यथा तथा । ३ मता ज्ञानविशेषार्थी अपि दृश्घ्रा ४ स्पृशादयः ॥३३॥
सामान्यादिति । बुधविद्ज्ञोपलभवगमादयः । स्पृशादयइति । आदिना श्रुध्यैस्मृपठ्प्रभृतयः । एवञ्च बोधसामान्यार्थानां बोधविशेषार्थानां धातूनां चाऽणिक्कती णौ कर्मेत्याशयः ॥३३॥
गत्यर्थाश्च देशान्तरप्राप्त्यर्थी एव, न तु भजनाद्यर्थी अपीत्युदाहरणप्रदर्शनेनाह
गमयति रमणी मैत्रो रमणेनात्र गमिरस्ति भजनार्थः । गत्यर्थ एव पार्थ गमयति समरं रमारमणः ॥३४॥ भजनार्थ इति । एवञ्चदृशस्थलेऽणिक्कर्तुणिगि तृतीयैव,देशान्त
बोधने वृत्तिरित्युपपादयितुं शक्यते । एवञ्च जल्पिप्रभृतीनां बोधार्थत्वाच्छ्रप्रभृतीनां बोधविशेषार्थत्वाच्च बोधार्थत्वादेव सङ्ग्रह इति जल्पार्थग्रहणं निष्प्रयोजनम् । एवञ्च मन्दबुद्धयनुग्रहार्थमेव जल्पार्थग्रहणमिति । . १ बोधाहारार्था' इति ग० पाठः । २ ' यथैव हि ' इति क० ग० पाठः । ३ ' तथाऽमीन्द्रियगम्यार्था' इति क० ग० पाठः । ४ 'स्पृश्यस्मृतितुल्या' इति ग० पाठः । 'स्पृश्ध्यैस्मृतुल्यार्था ' इति क० पाठः ।