________________
कारकविवरणम्
तथा च बोधार्थी आहारार्थी गत्यर्थी जल्पार्था नित्याऽकर्माणश्च ये धातवस्तेष्वेतत्कर्तृकर्म भवतीत्यर्थः । एषु च नित्यमेव कर्तृकर्म भवति । अन्यत्र तु कियत्सु विकल्पेन तदित्यग्रे वक्ष्यति । नित्याकर्मेति नित्यग्रहणमविवक्षितकर्मत्वेनाऽकर्मकव्यावृत्त्यर्थम् । यद्यपि देशकालभावाऽध्वनां सर्वेष्वेव धातुषु कर्मत्वमित्यकर्मका धातवो दुर्लभाः, तथापि तद्भिन्नं कर्म येषां न, त एवाऽकर्मका व्यपदिश्यन्त इति बोध्यम् । जल्पः शब्दः, तदर्थाः, शब्दक्रिया इत्यर्थः । उपलक्षणमेतत् । तेन शब्दकर्मकेष्वप्यणिक्कतुः कर्मत्वमिति 'देवदत्तं शब्दं श्रावयती' त्यादयोऽपि प्रयोगा भवन्ति ।
यद्यपि बोधपदेन बोधसामान्यस्य बोधविशेषस्य च ग्रहणे तथा १ व्याख्यानं निष्प्रयोजनम् , श्रुज्ञाऽधीप्रभृतीनां बोधविशेषार्थकतया बोधार्थकत्वादेव 'श्रावयति मैत्रं शब्दम् , अध्यापयति वटुं वेदम् , विज्ञापयति गुरुं वाक्य मि' त्यादौ कर्तृकर्मत्वसिद्धः । अत एव बृहवृत्तौ बोधविशेषार्थकेषु " श्रावयति शिष्यं धर्मम् , अध्यापयति शिष्यं शास्त्रमि" त्युदाहृतम् । जल्पयति मैत्रं वाक्यमित्यादावप्युत्पलोक्तरीत्या जल्पिप्रभृतीनां जल्पनाद्यङ्गे बोधने वर्तनाबोधार्थत्वादेव सिद्धः, तथापि ' लेखयति शब्दं देवदत्तमि' त्याद्यथं तथा २ व्याख्यानमावश्यकमिति ध्येयम् ।
१ उपलक्षणतया व्याख्यानमित्यर्थः । २ अत्रैतद् द्रष्टव्यम्-जल्पिप्रभृतिवल्लिखिप्रभृतीनामपि लेखनाद्यङ्गे