________________
कारकविवरणम्
"धातो १ रथान्तरे वृत्ते धीत्व २ र्थेनोपसङ्ग्रहात् । ३ प्रसिद्धेर ४ विवक्षातः कर्मणोऽकर्मिका क्रिये" ति ॥१॥३०॥ कर्तृकाऽऽहणिगः पूर्व तु यः कती ५ स्याण्णिगन्तेषु कर्म सः । तत्कर्तृकर्म विज्ञेयं पुनरेष्वेव धातुषु ॥ ३१ ॥
णिगःपूर्वमिति । अणिगवस्थायामित्यर्थः । तथा चाऽणिगवस्थायां यः कता स णिगवस्थायां कर्म स्यात् , तत्पूर्व की पश्चात्कमति कर्तृकर्मेत्यर्थः । तादृशं कर्म कुत्रेत्याह-एष्वेवेति । वक्ष्यमाणेषु बोधाद्यर्थेषु धातुष्वेव, नाऽन्यत्र । तेनाऽन्यत्र पाचयति देवदत्तनेत्यादिरेव प्रयोगः ॥ ३१ ॥
एष्वित्युक्तमेव विवृणोतिबोधाऽऽहारगतिजल्पार्थनित्या ६ कर्मधातुषु । भवत्येतद्यथाऽऽचार्यः शिष्यं बोधयति श्रुतम् ॥ ३२ ॥ बोधेति । अर्थशब्दो बोधादिषु प्रत्येकमभि७ सम्बध्यते । १ यथा वहिर्गतौ सकर्मकः स्रुतावकर्मकः । २ यथा जीवधातुः प्राणधारणार्थकः । तत्र प्राणरूपकर्मणो धात्वर्थ एवाऽन्तर्भावः । ३ यथा मेघो वर्षतीत्यादौ वृषधातुर्जलरूपकर्मणः प्रसिद्धत्वादकर्मकः । ४ यथा नेह पच्यत इत्यादौ कर्माऽविवक्षायां भावे प्रत्ययः । ५ ' स्यादणि ' इति ग० पाठः। ६ 'कर्मक' इति ग० पाठः ।
७ ' द्वन्द्वान्ते द्वन्द्वादौ वा श्रयमाणं पदं प्रत्येकमभिसम्बध्यते' इति न्यायादिति बोध्यम् ।