SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् विवेकिनस्तु -" अनुनयस्य भिक्ष्यर्थत्वाऽभावादेव भिक्ष्यर्थमध्ये न ग्रहणम् , याचेरपि भिक्ष्यर्थस्यैव भिक्ष्यर्थमध्ये ग्रहणौचित्यम् , याच्चाऽनुनययोर्भेदात् । नाऽपि याचेरेवाऽनुनयार्थस्य ग्रहणमित्यपि युक्तम् । गौणकर्मणोऽर्थनिबन्धनत्वात्तथार्थसत्त्वे तस्य वाङ्मात्रेण निषेधुमशक्यत्वात् । न चाऽनभिधानम् , क्रुद्धं शमं याचत इतिवत्क्रुद्धं शममनुनयतीत्यतोऽप्यर्थबोधात् । अत एव पाणिनीयैः पृथग् भिक्षिग्रहणं न कृतम् । एवञ्च पृथग्भिक्षिग्रहणमनतिप्रयोजनकतया प्रपश्चार्थमेव । अन्यथा भिक्षेः पृथग् ग्रहणाद् याचेरनुनयार्थस्यैव, याच्मार्थस्य भिक्षेरेव वा ग्रहणमित्यपि सम्भाव्येत, विनिगमनाविरहादि" ति मन्यन्ते ॥ २९ ॥ सम्प्रति कर्तृकर्म विवक्षु नित्याकर्मकेप्वपि धातुषु णिगवस्थायां तद्भवतीति प्रथमं १ तानाह वृद्धिजीवितसत्ताहीस्थितिजागरणार्थकाः । रुचिक्रीडामृतिभीस्वाप २ दीप्त्यर्थास्त्वकर्मकाः॥३०॥ वृद्धीति । उपलक्षणमेतत् , तथा च क्षयग्लानिवयोहानिरोदनप्राणनमोदमदाद्यर्थका अप्यकर्मकाः। ३ तत्त्वं च फलसमानाधिकरणव्यापारवाचकत्वम् । तच्च वृद्धगद्यर्थकानां धातूनामस्तीति तेऽकर्मकाः । अविवक्षितकर्मादिका अप्यकर्मकाः । यदुक्तम् १ अकर्मकधातूनित्यर्थः । २ 'दीप्यर्थी' इति क० पाठः । ३ अकर्मकत्वमित्यर्थः ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy