SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ कारकविवरणम् याप्यं कर्मे ' त्यनेनैव सिद्धत्वादि' ति । अवधित्वादिविवक्षायां तु भवत्येव 'गोर्दोग्धि पय ' इत्यादी" ति च ॥ २८ ॥ भिक्षियाच्योः समानार्थकतया द्वयोरुपादानस्य निष्प्रयोजनत्वाऽऽशङ्कायां तयोरर्थभेदं प्रदर्य समाधत्ते कृतकोपं . याचति शममविनीतं याचते विनयम् । इह याचिरनुनयार्थो २ भिक्ष्यी ३ दस्य तद्भेदः ॥२९॥ कृतकोपमिति । क्रुद्धमित्यर्थः । अनुनयार्थ इति । अत्रायमाशयः – याच्धातुर्याच्ञायामनुनये च वर्तते, भिक्षधातुस्तु याच्यायामेव । एवञ्च भिक्ष्मात्रस्योपादानेऽनुनयार्थयाच्धातोर्ग्रहणं न स्यादिति द्वयोरुपादानम् । ___नन्वेवं याचिरेवोपादीयताम् , ततश्च याच्मार्थस्याऽनुनयार्थस्य च द्वयोरपि ग्रहणं भविष्यतीति भिक्षेरुपादानं निष्प्रयोजनमिति चेत् । अत्र बृहन्न्यासः - “ अस्त्येतत् , किन्त्वेवं यथा याच्यार्थी धातवो गृह्यन्ते, एवमनुनयार्थी अपि गृह्येरन् । अत्र पुनर्मिक्षिग्रहणाद् याच्यार्थानां सर्वेषां ग्रहणम् , याचिग्रहणात्तु तस्यैवाऽनुनयार्थस्येती" ति । लघुन्यासकारश्च-" तेन भिक्ष्यर्थमध्ये याचिद्वाराऽनुनयार्थानां न ग्रह" इत्याह । - १ 'याचितशममि ' ति ग० पाठः। २ 'भिक्षार्था' इति ग० पाटः । 'त्तस्य' इति क० पाठः ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy