________________
. कारकविवरणम्
रणिक्कर्मणोर्णिगि कर्तृत्वे सम्भवतीति बोध्यम् ।
क्रमणोदाहरणमाह-लोकमिति । लोको नृपं पश्यति, तमनुकूलाचरणादिना कृत्वा राजा स्वयं प्रयुङ्क्ते इति, तथा पुत्रः पूज्यमभिबदति, तं पूज्यः स्वयं प्रेरयतीति च विवक्षायामणिकर्मणो णिगि कर्तृत्वादात्मनेपदम् । तत्र चाऽणिक्कर्तुर्णिगि कर्मता, अन्यस्याऽपि च प्रयोजकत्वे फलवत्कर्त्तात्मनेपदसम्भव इति नृपं दर्शयते लोकं लोकेन वा, पुत्रमभिवादयते पूज्यं पुत्रेण वा मैत्र इत्येवमप्युदाहरणं बोध्यम् ।
चौरादिकस्येति । णिजन्तस्येत्यर्थः । यथा अभिवादयति गुरुः शिष्यम् , अभिवादयते गुरुं देवदत्तो गुरुणा वा । णिगन्तस्याऽपि कश्चित् । तन्मते च-अभिवदति गुरुराशिषम् , तं शिष्योऽभिवादयते, तं च मैत्रः प्रयुङ्क्ते इत्यभिवादयते गुरुमाशिषं शिष्यं शिष्येण वा मैत्रः । अन्यश्च नामधातोरप्यभिवादयतेरिच्छति ॥ ४० ॥ ..
(तथा) वा ' कर्मत्वमणिकर्तुरविवक्षितकर्मणाम् । पाचय र त्येष मैत्रेयश्चैत्र चैत्रेण वा यथा ॥४१॥
अणिक्कर्तुरिति । णिगीति शेषः । अविवक्षितकर्मणामिति । धातूनामिति शेषः । अविवक्षितकर्मतयाऽकर्मकाणां धातू
१ वा कर्मत्वमणिन् कर्तुरि ' ति क. पाठः ‘वा कर्मकत्वमणिन् कर्तुरि. ति ग० पाठः । २ 'त्येषु' इति ग० पाठः ।